अस्य᳚ ते स॒ख्ये व॒यमिय᳚क्षन्त॒स्त्वोत᳚यः ।
इन्दो᳚ सखि॒त्वमु᳚श्मसि ॥
इन्दो᳚ सखि॒त्वमु᳚श्मसि ॥
पदपाठः (Word-by-word)
अस्य᳚ । ते॒ । स॒ख्ये । व॒यम् । इय᳚क्षन्तः । त्वा॑ऊ᳚तयः ।
इन्दो॒ इति᳚ । स॒खि॒॑त्वम् । उ॒श्म॒सि॒ ॥
इन्दो॒ इति᳚ । स॒खि॒॑त्वम् । उ॒श्म॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो पवमान इयक्षन्तो यष्टुमिच्छन्तो पूजयितुमिच्छन्तोवा अस्य प्रसिद्धस्य ते तव सख्ये सखिकर्मणि स्थितावयं त्वोतयः त्वदायत्तरक्षणाःसन्तः सखित्वं सखिभावमेव उश्मसि उश्मः कामयामहे ॥ १४ ॥