प्र ण᳚ इन्दो म॒हे रण॒ आपो᳚ अर्षन्ति॒ सिन्ध᳚वः ।
यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥
यद्गोभि᳚र्वासयि॒ष्यसे᳚ ॥
पदपाठः (Word-by-word)
प्र । नः॒ । इ॒न्दो॒ इति᳚ । म॒हे । रणे᳚ । आपः᳚ । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः ।
यत् । गोभिः᳚ । वा॒स॒यि॒ष्यसे᳚ ॥
यत् । गोभिः᳚ । वा॒स॒यि॒ष्यसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्दो क्षरन् सोम नोस्माकं स्वभूताय रणे रणाय रणन्ति स्तुवन्ति देवानत्रेति रणो यज्ञः । अधिकरणे अप् ङेर्यइति नभवति सर्वविधीनां छन्दसि विकल्पितत्वात् । महे महते रणाय यज्ञाय तदर्थे सिंधवः स्यन्दमाना आपः वसतीवर्याख्याः सोमसेकार्थं अर्षन्ति प्रग- च्छन्ति । यद्यदा त्वं गोभिः गव्यैः दधिक्षीरादिभिः वासयिष्यसे आच्छाद्यसे मिश्रितो- भवसि तदा आपोगच्छन्तीति ॥ १३ ॥