श्रवणम्

9.66.15
आ प᳚वस्व॒ गवि᳚ष्टये म॒हे सो᳚म नृ॒चक्ष᳚से ।
एन्द्र᳚स्य ज॒ठरे᳚ विश ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । गो॑इ᳚ष्टये । म॒हे । सो॒म॒ । नृ॒॑चक्ष᳚से ।
आ । इन्द्र᳚स्य । ज॒ठरे᳚ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमान गविष्टये अंगिरसां गवामन्वेष्ट्रे महे महते नृचक्षसे नृणां मनुष्याणां द्रष्ट्रे कर्मनेतॄणां फलं पश्यतेवा इन्द्राय आपवस्व पात्रेषु दशापवित्रेण पूतो भव । किंच इन्द्रस्य जठरे उदरे उदरभूते द्रोणकलशे वा आविश प्रविश ॥ १५ ॥