श्रवणम्

9.66.22
पव᳚मानो॒ अति॒ स्रिधो॒॑भ्य᳚र्षति सुष्टु॒तिम् ।
सूरो॒ न वि॒श्वद᳚र्शतः ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । अति᳚ । स्रिधः᳚ । अ॒भि । अ॒र्ष॒ति॒ । सु॒॑स्तु॒तिम् ।
सूरः᳚ । न । वि॒श्व॑द᳚र्शतः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवमानः सोमः अतिस्रिधः हिंसकान् शत्रून् अतिक्रम्य गच्छति । तथा सुष्टुतिं स्तोतॄणां शोभनां स्तुतिं अभ्यर्षति आभिमुख्येन गच्छति । ऋषीगतौ तौदादिकः बहुलंछन्दसीतिशप् गुणः । किंच सूरोन सूर्यइव विश्वदर्शतः सर्वस्य द्रष्टा सर्वैर्वा दर्शनीयोभवति ॥ २२ ॥