य उ॒ग्रेभ्य᳚श्चि॒दोजी᳚या॒ञ्छूरे᳚भ्यश्चि॒च्छूर᳚तरः ।
भू॒रि॒दाभ्य᳚श्चि॒न्मंही᳚यान् ॥
भू॒रि॒दाभ्य᳚श्चि॒न्मंही᳚यान् ॥
पदपाठः (Word-by-word)
यः । उ॒ग्रेभ्यः᳚ । चि॒त् । ओजी᳚यान् । शूरे᳚भ्यः । चि॒त् । शूर᳚॑तरः ।
भू॒रि॒॑दाभ्यः᳚ । चि॒त् । मंही᳚यान् ॥
भू॒रि॒॑दाभ्यः᳚ । चि॒त् । मंही᳚यान् ॥
सायणभाष्यम् (Sayana Commentary)
यः सोमः उग्रेभ्यश्चित् उद्गूर्णेभ्योबलवद्भ्योपि ओजीयान् ओजस्वितमः । किंच थः शूरे- भ्यश्चित् वीरेभ्योपि शूरतरः अत्यन्तसमर्थोभवति । तथा यः सोमः भूरिदाभ्यः डुदाञ् दाने आतोमनिन्नितिविच् । बहुधनानां दातृभ्योपि मंहीयान् दातृतमोभवति । तं त्वां वृणीमहे इति उत्तरेणसंबन्धः ॥ १७ ॥