तवे॒मे स॒प्त सिन्ध᳚वः प्र॒शिषं᳚ सोम सिस्रते ।
तुभ्यं᳚ धावन्ति धे॒नवः᳚ ॥
तुभ्यं᳚ धावन्ति धे॒नवः᳚ ॥
पदपाठः (Word-by-word)
तव᳚ । इ॒मे । स॒प्त । सिन्ध᳚वः । प्र॒॑शिष᳚म् । सो॒म॒ । सि॒स्र॒ते॒ ।
तुभ्य᳚म् । धा॒व॒न्ति॒ । धे॒नवः᳚ ॥
तुभ्य᳚म् । धा॒व॒न्ति॒ । धे॒नवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वृष्टिकर्तृत्वप्रसंगादाह हे सोम इमे इमास्त्वयासृष्टाः सप्त सप्तसंख्याकाः सिन्धवः स्य- न्दमाना गंगाद्यानद्यः यद्वा सप्त सप्रणशीलानद्यः तव प्रशिषं प्रशासनमाज्ञामभिसिस्रते अनुसरन्ति त्वदाज्ञामनुसृत्य समुद्रं गच्छन्तीत्यर्थः । किंच धेनवः नवप्रसूतिकाः देवानां हविः प्रदानेन प्रीणयित्र्योगावः तुभ्यं त्वदर्थमेव आशिरं प्रयच्छामइति धावंति आग- च्छन्ति ॥ ६ ॥