अच्छा᳚ समु॒द्रमिन्द॒वो॑स्तं॒ गावो॒ न धे॒नवः᳚ ।
अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥
अग्म᳚न्नृ॒तस्य॒ योनि॒मा ॥
पदपाठः (Word-by-word)
अच्छ᳚ । स॒मु॒द्रम् । इन्द᳚वः । अस्त᳚म् । गावः᳚ । न । धे॒नवः᳚ ।
अग्म᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
अग्म᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
सायणभाष्यम् (Sayana Commentary)
इन्दवः क्षरन्तः सोमाः समुद्रं सोमानामेकत्रैव संगमनस्थानं द्रोणकलशमभिगच्छन्ति । तत्रदृष्टान्तः—धेनवः पयःप्रदानेन जनानां प्रीणयित्र्योनवप्रसूतिकागावः अस्तं गृहं यथाभिग- च्छन्ति तद्वत् । किंच ते सोमाः ऋतस्य सत्यभूतस्य यज्ञस्य योनिं स्थानमाग्मन् आभि- मुख्येनगच्छन्ति । गमेर्लुङि सिचोलुकि उपधालोपः ॥ १२ ॥