श्रवणम्

9.66.10
पव᳚मानस्य ते कवे॒ वाजि॒न्त्सर्गा᳚ असृक्षत ।
अर्व᳚न्तो॒ न श्र᳚व॒स्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚मानस्य । ते॒ । क॒वे॒ । वाजि᳚न् । सर्गाः᳚ । अ॒सृ॒क्ष॒त॒ ।
अर्व᳚न्तः । न । श्र॒व॒स्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मार्जनप्रसंगमाह हे कवे क्रान्तप्रज्ञ हे वाजिन्नन्नवन् सोम पवमानस्य दशापवित्रेण पूय- मानस्य ते तव सर्गाः सृज्यन्तइतिसर्गाः धाराः । कीदृशाः श्रवस्यवः छन्दसिपरेच्छायां- क्यच् । यष्टृणामन्नं कामयमानास्त्वदीयाधाराः असृक्षत सृजन्ति निर्गच्छन्तीत्यर्थः । तत्रदृ- ष्टान्तः—अर्वन्तोन यथा अश्वाः मन्दुरातोनिर्गच्छन्ति तद्वत् पवित्रान्निसरन्तीत्यर्थः । प्रयो- गापेक्षं चात्र धाराबाहुल्यम् ॥ १० ॥