श्रवणम्

9.66.21
अग्ने॒ पव᳚स्व॒ स्वपा᳚ अ॒स्मे वर्च᳚ः सु॒वीर्य᳚म् ।
दध᳚द्र॒यिं मयि॒ पोष᳚म् ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । पव᳚स्व । सु॒॑अपाः᳚ । अ॒स्मे इति᳚ । वर्चः᳚ । सु॒॑वीर्य᳚म् ।
दध᳚त् । र॒यिम् । मयि᳚ । पोष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने स्वपाः । सोर्मनसीत्युत्तरपदाद्युदात्तत्वम् । शोभनकर्मा त्वं अस्मे अस्मासु सुवीर्थं शोभनवीर्योपेतं वर्चः वर्चदीप्तौ तेजः पवस्व आगमय । तथा भवान् रयिं धनं पुत्रं वा पो- षम् । भावेकर्मणि वा घञ् । गवां पुष्टिं यद्वा गवादिकं मयि भवान् दधत् दधातु करोत्वित्यर्थः । दधातेर्लेटि अडागमोघोर्लोपोलेटिवेत्याकारलोपः ॥ २१ ॥