श्रवणम्

9.66.11
अच्छा॒ कोशं᳚ मधु॒श्चुत॒मसृ᳚ग्रं॒ वारे᳚ अ॒व्यये᳚ ।
अवा᳚वशन्त धी॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । कोश᳚म् । म॒धु॒॑श्चुत᳚म् । असृ᳚ग्रम् । वारे᳚ । अ॒व्यये᳚ ।
अवा᳚वशन्त । धी॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धारानिर्गमनप्रसंगादभिधीयते मधुश्चुतं मधुररसस्य च्यावयितारं क्षारयितारं कोशं द्रोणकलशं अच्छ अभिलक्ष्य अव्यये अविमये अविस्वभूते वा वारे वाले दशापवित्रे असृ- ग्रं सोमा ऋत्विग्भिः सृज्यन्ते । सृजेः कर्मणि तिङांतिङोभवन्तीति झेरमादेशः । किंच धी- तयः अंगुलिनामैतत् धयन्ति पिबन्ति आभिरिति अस्मदीयाअंगुलयः अवावशन्त तान् सोमान् पुनःपुनः मार्जनार्थं कामयन्ते ॥ ११ ॥