उत्ते॒ शुष्मा᳚सो अस्थू॒ रक्षो᳚ भि॒न्दन्तो᳚ अद्रिवः ।
नु॒दस्व॒ याः प᳚रि॒स्पृधः᳚ ॥
उत् । ते॒ । शुष्मा᳚सः । अ॒स्थुः॒ । रक्षः᳚ । भि॒न्दन्तः᳚ । अ॒द्रि॒॑वः॒ ।
नु॒दस्व᳚ । याः । प॒रि॒॑स्पृधः᳚ ॥
अ॒या नि᳚ज॒घ्निरोज᳚सा रथसं॒गे धने᳚ हि॒ते ।
स्तवा॒ अबि᳚भ्युषा हृ॒दा ॥
अ॒या । नि॒॑ज॒घ्निः । ओज᳚सा । र॒थ॒॑स॒ङ्गे । धने᳚ । हि॒ते ।
स्तवै᳚ । अबि᳚भ्युषा । हृ॒दा ॥
अस्य᳚ व्र॒तानि॒ नाधृषे॒ पव᳚मानस्य दू॒ढ्या᳚ ।
रु॒ज यस्त्वा᳚ पृत॒न्यति᳚ ॥
अस्य᳚ । व्र॒तानि᳚ । न । आ॒॑धृषे᳚ । पव᳚मानस्य । दुः॒॑ध्या᳚ ।
रु॒ज । यः । त्वा॒ । पृ॒त॒न्यति᳚ ॥
तं हि᳚न्वन्ति मद॒च्युतं॒ हरिं᳚ न॒दीषु᳚ वा॒जिन᳚म् ।
इन्दु॒मिन्द्रा᳚य मत्स॒रम् ॥
तम् । हि॒न्व॒न्ति॒ । म॒द॒॑च्युत᳚म् । हरि᳚म् । न॒दीषु᳚ । वा॒जिन᳚म् ।
इन्दु᳚म् । इन्द्रा᳚य । म॒त्स॒रम् ॥