नवमं मण्डलम् - सूक्तम् 50

5 ऋचः

ऋषिः: उचथ्यः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.50 - सम्पूर्णम्

1 / 5
ऋक्: 9.50.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.50.1
उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि᳚व स्व॒नः ।
वा॒णस्य᳚ चोदया प॒विम् ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । शुष्मा᳚सः । ई॒र॒ते॒ । सिन्धोः᳚ । ऊ॒र्मेः॑इ᳚व । स्व॒नः ।
वा॒णस्य᳚ । चो॒द॒य॒ । प॒विम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव शुष्मासः शुष्मावेगा उदीरते उद्गच्छन्ति । तत्रदृष्टान्तः—सिन्धोः समुद्रस्यो र्मेरिव यथा तरंगात्स्वनोध्वनिरुद्गच्छति तद्वदित्यर्थः । सत्वं वाणस्य विसृष्टस्य वाणस्य नालस्य वादित्रविशेषस्य पविं शब्दम् । पविः भारतीति वाङ्गामसुपाठात् । चोदय प्रेरय । वेगेन स्यंदमानस्त्वं विसृष्टबाणशब्दसदृशं शब्दं कुर्वित्यर्थः ॥ १ ॥

9.50.2
प्र॒स॒वे त॒ उदी᳚रते ति॒स्रो वाचो᳚ मख॒स्युवः᳚ ।
यदव्य॒ एषि॒ सान᳚वि ॥
▶ पदपाठः (Word-by-word)
प्र॒॑स॒वे । ते॒ । उत् । ई॒र॒ते॒ । ति॒स्रः । वाचः᳚ । म॒ख॒स्युवः᳚ ।
यत् । अव्ये᳚ । एषि᳚ । सान᳚वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव प्रसवेसति मखस्युवो यज्ञमिच्छवो यजमानस्य तिस्रोवाचः ऋग्यजुःसा- मात्मकानि त्रीणि वाक्यान्युदीरते उद्गच्छन्ति । कदेत्यतआह—यद्यदा सानवि व्युच्छ्रिते अव्ये अविमये पवित्रे एषि त्वं गच्छसि ॥ २ ॥

9.50.3
अव्यो॒ वारे॒ परि᳚ प्रि॒यं हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
पव᳚मानं मधु॒श्चुत᳚म् ॥
▶ पदपाठः (Word-by-word)
अव्यः᳚ । वारे᳚ । परि᳚ । प्रि॒यम् । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
पव᳚मानम् । म॒धु॒॑श्चुत᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रियं देवानां प्रीतिकरं हरिं हरितवर्णमद्रिभिः ग्रावभिरभिषुतं मधुश्चुतं मधुनोरसस्य च्यावयितारं पवमानं सोममव्योवेर्वारे वाले परिहिन्वन्ति ऋत्विजः परिप्रेरयन्ति ॥ ३ ॥

9.50.4
आ प᳚वस्व मदिन्तम प॒वित्रं॒ धार᳚या कवे ।
अ॒र्कस्य॒ योनि᳚मा॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । म॒दि॒न्॑त॒म॒ । प॒वित्र᳚म् । धार᳚या । क॒वे॒ ।
अ॒र्कस्य᳚ । योनि᳚म् । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मदिन्तम मादयितृतम कवे क्रान्तकर्मन् सोम अर्कस्यार्चनीयस्येन्द्रस्य योनिं उदरं स्थान मासदं प्राप्तुं पवित्रमतीत्य धारया संपातेनापवस्व आभिमुख्येन क्षर । यद्यप्येषा पूर्वस्मिन्न- ध्याये व्याकृता तथापि मन्दमतीनां विस्मरणशंकया पुनर्व्याख्याता ॥ ४ ॥

9.50.5
स प᳚वस्व मदिन्तम॒ गोभि᳚रञ्जा॒नो अ॒क्तुभि᳚ः ।
इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
सः । प॒व॒स्व॒ । म॒दि॒न्॑त॒म॒ । गोभिः᳚ । अ॒ञ्जा॒नः । अ॒क्तु॑भिः᳚ ।
इन्दो॒ इति᳚ । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मदिन्तम मादयितृतमेन्दो सोम उक्तुभिरंजनसाधनभूतैर्गोभिः गोविकारैः पयोभिरंजा नोज्यमानः संस्क्रियमाणः सत्वं इन्द्रायेन्द्रस्य पीतये पानाय पवस्व क्षर ॥ ५ ॥

अध्वर्योइति पंचर्चं सप्तविंशंसूक्तं आंगिरसस्य उचथ्यस्यार्षं गायत्रं पवमानसोमदेवता कम् । तथाचानुक्रम्यते—अध्वर्योइति । गतः सूक्तविनियोगः ।