नवमं मण्डलम् - सूक्तम् 85

12 ऋचः

ऋषिः: वेनो भार्गवः देवता: पवमानः सोमः छन्दः: जगती

सूक्तम् 9.85 - सम्पूर्णम्

1 / 12
ऋक्: 9.85.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
9.85.1
इन्द्रा᳚य सोम॒ सुषु᳚त॒ः परि᳚ स्र॒वापामी᳚वा भवतु॒ रक्ष᳚सा स॒ह ।
मा ते॒ रस᳚स्य मत्सत द्वया॒विनो॒ द्रवि᳚णस्वन्त इ॒ह स॒न्त्विन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । सो॒म॒ । सु॑सु᳚तः । परि᳚ । स्र॒व॒ । अप᳚ । अमी᳚वा । भ॒व॒तु॒ । रक्ष᳚सा । स॒ह ।
मा । ते॒ । रस᳚स्य । म॒त्स॒त॒ । द्व॒या॒विनः᳚ । द्रवि᳚णस्वन्तः । इ॒ह । स॒न्तु॒ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं सुषुतः सुष्ठु अभिषुतःसन् इन्द्राय इन्द्रार्थं परिस्रव परितः स्रव गच्छ रसंमुंच । अमीवारोगः रक्षसासह अपभवतु अपगतोवियुक्तोभवतु ते तव रसस्य स्वां- शंरसंपीत्वा मामत्सत मामाद्यन्तु के द्वयाविनः द्वयं सत्यानृतं तेनयुक्ताः पापिनइत्यर्थः किंच इन्दवस्तेरसाः इहास्मिन्यज्ञे द्वविणस्वन्तः धनवंतः सन्तु भवन्तु ॥ १ ॥

9.85.2
अ॒स्मान्त्स᳚म॒र्ये प᳚वमान चोदय॒ दक्षो᳚ दे॒वाना॒मसि॒ हि प्रि॒यो मदः᳚ ।
ज॒हि शत्रू{4}᳚र॒भ्या भ᳚न्दनाय॒तः पिबे᳚न्द्र॒ सोम॒मव᳚ नो॒ मृधो᳚ जहि ॥
▶ पदपाठः (Word-by-word)
अ॒स्मान् । स॒॑म॒र्ये । प॒व॒मा॒न॒ । चो॒द॒य॒ । दक्षः᳚ । दे॒वाना᳚म् । असि᳚ । हि । प्रि॒यः । मदः᳚ ।
ज॒हि । शत्रू᳚न् । अ॒भि । आ । भ॒न्द॒ना॒॑य॒तः । पिब᳚ । इ॒न्द्र॒ । सोम᳚म् । अव᳚ । नः॒ । मृधः᳚ । ज॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमानसोम अस्मान् समर्थे संग्रामे चोदय प्रेरय दक्षोह्यसि समर्थः खलु भवसि देवानांमध्ये । यद्वा देवानां प्रीणनाय दक्षोसि यद्वा दक्षस्त्वं देवानांप्रियः प्रियकरोमदोमा- दयितासि हि । जहिचशत्रुनस्माकं अभ्यागच्छचास्मान् प्रति । भंदनाःस्तुतग्रः भंदतेःस्तुतिक- र्मणः ताइच्छतः पिब हे इन्द्र सोमं अवजहि नोस्माकं संग्रामकारिणो जहि मृधः संग्रा- मात् ॥ २ ॥

9.85.3
अद᳚ब्ध इन्दो पवसे म॒दिन्त᳚म आ॒त्मेन्द्र᳚स्य भवसि धा॒सिरु᳚त्त॒मः ।
अ॒भि स्व᳚रन्ति ब॒हवो᳚ मनी॒षिणो॒ राजा᳚नम॒स्य भुव᳚नस्य निंसते ॥
▶ पदपाठः (Word-by-word)
अद᳚ब्धः । इ॒न्दो॒ इति᳚ । प॒व॒से॒ । म॒दिन्॑त᳚मः । आ॒त्मा । इन्द्र᳚स्य । भ॒व॒सि॒ । धा॒सिः । उ॒त्॑त॒मः ।
अ॒भि । स्व॒र॒न्ति॒ । ब॒हवः᳚ । म॒नी॒षिणः᳚ । राजा᳚नम् । अ॒स्य । भुव᳚नस्य । निं॒स॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो क्लिद्यमानसोम अदब्धः अहिंसितोमदिन्तमोमादयितृतमस्त्वं पवसे पूयसे आत्मास्वयमेव उत्तमस्त्वं इन्द्रस्यधासिः अन्नंभवसि अस्यभुवनस्यराजानंसोमं बहवोमनी- षिणः स्तोतारोभिस्वरंति अभिष्टुवन्ति निंसते गच्छन्तिवा ॥ ३ ॥

9.85.4
स॒हस्र᳚णीथः श॒तधा᳚रो॒ अद्भु᳚त॒ इन्द्रा॒येन्दु᳚ः पवते॒ काम्यं॒ मधु᳚ ।
जय॒न्क्षेत्र᳚म॒भ्य᳚र्षा॒ जय᳚न्न॒प उ॒रुं नो᳚ गा॒तुं कृ᳚णु सोम मीढ्वः ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑नीथः । श॒त॑धा᳚रः । अद्भु᳚तः । इन्द्रा᳚य । इन्दुः᳚ । प॒व॒ते॒ । काम्य᳚म् । मधु᳚ ।
जय᳚न् । क्षेत्र᳚म् । अ॒भि । अ॒र्ष॒ । जय᳚न् । अ॒पः । उ॒रुम् । नः॒ । गा॒तुम् । कृ॒णु॒ । सो॒म॒ । मी॒ढ्वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रनीथो बहुप्रकारनयनः शातधारः अपरिमितधारोपेतः अद्भुतः आश्चर्यकरोमहानि न्दुः इन्द्राय काम्यं मधुपवते । किंच क्षेत्रमस्मभ्यं जयन् अपश्चजयन् अभ्यर्ष अभिगच्छ- पवित्रम् । हेसोम मीढ्वः सेक्तः गातुं मार्गं नोस्माकं उरुंविस्तीर्णं कृणु कुरु ॥ ४ ॥

9.85.5 समानपद
कनि᳚क्रदत्क॒लशे॒ गोभि᳚रज्यसे॒ व्य१॒᳚व्ययं᳚ स॒मया॒ वार᳚मर्षसि ।
म॒र्मृ॒ज्यमा᳚नो॒ अत्यो॒ न सा᳚न॒सिरिन्द्र᳚स्य सोम ज॒ठरे॒ सम᳚क्षरः ॥
▶ पदपाठः (Word-by-word)
कनि᳚क्रदत् । क॒लशे᳚ । गोभिः᳚ । अ॒ज्य॒से॒ । वि । अ॒व्यय᳚म् । स॒मया᳚ । वार᳚म् । अ॒र्ष॒सि॒ ।
म॒र्मृ॒ज्यमा᳚नः । अत्यः᳚ । न । सा॒न॒सिः । इन्द्र᳚स्य । सो॒म॒ । ज॒ठरे᳚ । सम् । अ॒क्ष॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम कनिक्रदत् शब्दंकुर्वन् कलशॆवर्तमानो गोभिः पयोभिः अज्यसे सिक्तोभवसि । अव्ययं अविमयं वारं वालं दशापवित्रं समया तत्समीपे व्यर्षसि विविधंगच्छसि मर्मृ- ज्यमानः शोध्यमानः अत्योन अश्वइव सानसिः संभजनशीलस्त्वं हेसोम इन्द्रस्यजठरे समक्षरः सम्यक् क्षरसि ॥ ५ ॥

9.85.6 समानपद
स्वा॒दुः प᳚वस्व दि॒व्याय॒ जन्म᳚ने स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तुनाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु᳚णाय वा॒यवे॒ बृह॒स्पत᳚ये॒ मधु᳚मा{4}॒ अदा᳚भ्यः ॥
▶ पदपाठः (Word-by-word)
स्वा॒दुः । प॒व॒स्व॒ । दि॒व्याय᳚ । जन्म᳚ने । स्वा॒दुः । इन्द्रा᳚य । सु॒हवी᳚तु॑नाम्ने ।
स्वा॒दुः । मि॒त्राय᳚ । वरु᳚णाय । वा॒यवे᳚ । बृह॒स्पत᳚ये । मधु᳚॑मान् । अदा᳚भ्यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम स्वादुस्त्वं दिव्याय जन्मने देवगणाय पवस्व तथा सुहवीतुनाम्ने शोभनाह्वा- ननामधेयायेन्द्रायत्वंपवस्व मित्राय वरुणाय वायवे बृहस्पतयेच पवस्व मधुमान् मधुर- रसः अदाभ्यः अन्यैरहिंस्यस्त्वं ॥ ६ ॥

9.85.7
अत्यं᳚ मृजन्ति क॒लशे॒ दश॒ क्षिप॒ः प्र विप्रा᳚णां म॒तयो॒ वाच᳚ ईरते ।
पव᳚माना अ॒भ्य᳚र्षन्ति सुष्टु॒तिमेन्द्रं᳚ विशन्ति मदि॒रास॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
अत्य᳚म् । मृ॒ज॒न्ति॒ । क॒लशे᳚ । दश᳚ । क्षिपः᳚ । प्र । विप्रा᳚णाम् । म॒तयः᳚ । वाचः᳚ । ई॒र॒ते॒ ।
पव᳚मानाः । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒॑स्तु॒तिम् । आ । इन्द्र᳚म् । वि॒श॒न्ति॒ । म॒दि॒रासः᳚ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्यमतनवन्तमश्वस्थानीयंवा सोमं कलशे दशक्षिपोदशांगुलयः अध्वर्युसंबन्धिन्योमृ- जन्ति शोधयन्ति । तथा विप्राणांमध्ये मतयः स्तोतारोवाचः स्तुतीरीरते प्रेरयन्ति । पव- मानाः सोमाः अभ्यर्षन्ति । अभिगच्छन्ति । सुष्टुतिं शोभनस्तुतिं इन्द्रं मदिरासोमदकराइन्द वः सोमाः आविशंति प्रविशन्ति ॥ ७ ॥

9.85.8 समानपद
पव᳚मानो अ॒भ्य᳚र्षा सु॒वीर्य᳚मु॒र्वीं गव्यू᳚तिं॒ महि॒ शर्म᳚ स॒प्रथः᳚ ।
माकि᳚र्नो अ॒स्य परि᳚षूतिरीश॒तेन्दो॒ जये᳚म॒ त्वया॒ धनं᳚धनम् ॥
▶ पदपाठः (Word-by-word)
पव᳚मानः । अ॒भि । अ॒र्ष॒ । सु॒॑वीर्य᳚म् । उ॒र्वीम् । गव्यू᳚तिम् । महि᳚ । शर्म᳚ । स॒॑प्रथः᳚ ।
माकिः᳚ । नः॒ । अ॒स्य । परि᳚॑सूतिः । ई॒श॒त॒ । इन्दो॒ इति᳚ । जये᳚म । त्वया᳚ । धन᳚म्॑धनम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमानः पूयमानस्त्वं सुवीर्यं उर्वीं महतीं गव्यूतिं गोमार्गंच महि महत् सप्रथः सर्वतः पृथु शर्म गृहं सुखंवा अभ्यर्ष अभिगमय नोस्माकमस्यकर्मणः परिषूतिः हिंसायाः परिप्रेरकोद्वेषी माकिरीशत मैश्वरोभवतु हेइन्दो सोम त्वया साधनेन धनंधनं सर्वमपिधनं जयेम ॥ ८ ॥

9.85.9
अधि॒ द्याम᳚स्थाद्वृष॒भो वि᳚चक्ष॒णो॑रू᳚रुच॒द्वि दि॒वो रो᳚च॒ना क॒विः ।
राजा᳚ प॒वित्र॒मत्ये᳚ति॒ रोरु᳚वद्दि॒वः पी॒यूषं᳚ दुहते नृ॒चक्ष᳚सः ॥
▶ पदपाठः (Word-by-word)
अधि᳚ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒॑च॒क्ष॒णः । अरू᳚रुचत् । वि । दि॒वः । रो॒च॒ना । क॒विः ।
राजा᳚ । प॒वित्र᳚म् । अति᳚ । ए॒ति॒ । रोरु᳚वत् । दि॒वः । पी॒यूष᳚म् । दु॒ह॒ते॒ । नृ॒॑चक्ष᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्गु उपरि अस्थात् अवस्थात् द्यां द्युलोकं वृषभोवर्षिता विचक्षणो विद्रष्टायं सोमः तथाकृत्वा दिवोद्युलोकसंबंधीनि रोचना रोचमानानि नक्षत्रादीनि व्यरूरुचत् विविधं रोचयति । कविः क्रान्तप्रज्ञः सन् राजासोमः पवित्रं दशापवित्रं अत्येति अतिक्रम्यगच्छति । रोरुवत् शब्दंकुर्वन् दिवोद्युलोकस्य पीयूषं सारं रसं नृचक्षसः नृणांद्रष्टारः सोमा दुहते स्रवन्ति स्वकीयंरसमान्तरिक्ष्यमुदकंवा दुहन्तीत्यर्थः ॥ ९ ॥

9.85.10
दि॒वो नाके॒ मधु᳚जिह्वा अस॒श्चतो᳚ वे॒ना दु᳚हन्त्यु॒क्षणं᳚ गिरि॒ष्ठाम् ।
अ॒प्सु द्र॒प्सं वा᳚वृधा॒नं स᳚मु॒द्र आ सिन्धो᳚रू॒र्मा मधु᳚मन्तं प॒वित्र॒ आ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । नाके᳚ । मधु᳚॑जिह्वाः । अ॒स॒श्चतः᳚ । वे॒नाः । दु॒ह॒न्ति॒ । उ॒क्षण᳚म् । गि॒रि॒॑स्थाम् ।
अ॒प्॑सु । द्र॒प्सम् । व॒वृ॒धा॒नम् । स॒मु॒द्रे । आ । सिन्धोः᳚ । ऊ॒र्मा । मधु᳚॑मन्तम् । प॒वित्रे᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवोद्योतमानस्ययज्ञस्य संबंधिनि नाके दुःखरहिते हविर्धानाख्येस्थाने मधुजिह्वाः मधुरवाचः असश्चतः असंसक्ताः पृथक् पृथगित्यर्थः । यद्वा चिरमकृत्वा शीघ्रमभिषुण्वन्तो- वेना एतन्नामकामहर्षयो दुहन्ति अभिषुण्वन्ति । यद्वा द्युलोकएव वेनाः कांताः देवादु- हन्ति तंसोमं उक्षणं सेक्तारं गिरिष्ठां गिरौउन्नतेदेशॆ वर्तमानं अप्सूदकेषु वसतीवरीषु अन्तर्वृधानं वर्धमानं द्रप्सं रसरूपं समुद्रे समुद्रवत् प्रवृद्धेद्रोणकलशे सिन्धोरुदकस्य ऊर्मा ऊर्मौ पूरेआसिंचंतीतिशॆषः तदर्थं मधुमन्तं माधुर्योपेतंरसं पवित्रे दशापवित्रे आसिंचन्ती- तिशेषः ॥ १० ॥

9.85.11
नाके᳚ सुप॒र्णमु᳚पपप्ति॒वांसं॒ गिरो᳚ वे॒नाना᳚मकृपन्त पू॒र्वीः ।
शिशुं᳚ रिहन्ति म॒तय॒ः पनि᳚प्नतं हिर॒ण्ययं᳚ शकु॒नं क्षाम᳚णि॒ स्थाम् ॥
▶ पदपाठः (Word-by-word)
नाके᳚ । सु॒॑प॒र्णम् । उ॒प॒प॒प्ति॒॑वांस᳚म् । गिरः᳚ । वे॒नाना᳚म् । अ॒कृ॒प॒न्त॒ । पू॒र्वीः ।
शिशु᳚म् । रि॒ह॒न्ति॒ । म॒तयः᳚ । पनि᳚प्नतम् । हि॒र॒ण्यय᳚म् । श॒कु॒नम् । क्षाम᳚णि । स्था॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नाके द्युलोके वर्तमानं सुपर्णं शोभनपर्णोपेतं पश्चात् उपपप्तिवांसं उपपतयन्तंसोमं वे- नानां स्तोतॄणामस्माकं संबन्धिन्यः पूर्वीर्बद्भ्योगिरः स्तुतयः उपाकृपन्त उपकल्पन्ते अभि- ष्टुवन्तीत्यर्थः । तं शिशुं शिशुवत्संस्कर्तव्यंसोमं मतयः स्तुतयः रिहन्ति लिहन्ति । संस्पृ- शन्ति प्राप्नुवन्तीत्यर्थः । कीदृशं शिशुं पनिमतं शब्दायन्तं पनतेर्यङ्लुगन्तात् शतरि अभ्यासस्यनिगागमउपधालोपश्च । हिरण्ययं हिरण्मयं शकुनं पक्षिणं क्षामणि क्षमायां स्थां हविर्धानेरथां वर्तमानं ॥ ११ ॥

9.85.12
ऊ॒र्ध्वो ग᳚न्ध॒र्वो अधि॒ नाके᳚ अस्था॒द्विश्वा᳚ रू॒पा प्र᳚ति॒चक्षा᳚णो अस्य ।
भा॒नुः शु॒क्रेण᳚ शो॒चिषा॒ व्य᳚द्यौ॒त्प्रारू᳚रुच॒द्रोद᳚सी मा॒तरा॒ शुचि᳚ः ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि᳚ । नाके᳚ । अ॒स्था॒त् । विश्वा᳚ । रू॒पा । प्र॒ति॒॑चक्षा᳚णः । अ॒स्य॒ ।
भा॒नुः । शु॒क्रेण᳚ । शो॒चिषा᳚ । वि । अ॒द्यौ॒त् । प्र । अ॒रू॒रु॒च॒त् । रोद᳚सी॒ इति᳚ । मा॒तरा᳚ । शुचिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्ध्वउन्नतोगंधर्वोरश्मीनांधारकः सोमोनाके आदित्ये अध्य् स्थात् अधितिष्ठति किंकुर्व- न् अस्यादित्यस्य विश्वा विश्वानि रूपा रूपाणि प्रतिचक्षणः प्रतिश्यन् भानुरादित्यः सोमाधिष्ठितः सन् शुक्रेण दीप्तेन शोचिषा तेजसा व्यद्यौत् विद्योतते नकेवलंस्वयमेव अपितु मातरानिर्मात्र्यौ रोदसी द्यावापृथिव्यौ प्रारूरुचत् प्ररोचयति शुचिर्दीप्तः सूर्यः ॥ १२ ॥

अथपंचमेचानुवाके एकादशसूक्तानि तत्र प्रतइत्यष्टाचत्वारिंशदृचं प्रथमंसूक्तम् । प्रथम- दशर्चस्य आकृष्टाइतिमाषाइतिच द्विनामानऋषिगणाद्रष्टारः । द्वितीयस्यदशर्चस्य सिकता- इति निवावरीइति द्विनामानऋषिगणाद्रष्टारः । द्वितीयस्यदशर्चस्य सिकताइति निवावरी- इति द्विनामानऋषिगणाः । तृतीयस्यदशर्चस्य पृश्नयइतिअजाइतिचनामद्वयोपेताऋषिगणाः । अदृष्टार्थमेषांद्विनामत्वमवगंतव्यम् । चतुर्थस्यदशर्चस्य आकृष्टामाषाइत्यादिद्विनामानस्त्रयोग- णाःद्रष्टारः । आत्रेयइतिनामानमुनयोगणद्रष्टारः । एवंचत्वारिंशाद्वताः अथपंचानांभौमो- त्रिरृषिः ततस्तिसृणांगृत्समदः । जगतीछन्दः पवमानसोमोदेवता । तथाचानुक्रान्तं—प्रतेष्टा- चत्वारिंशदृषिगणादशर्चा आकृष्टामाशाःप्रथमे सिकतानिवावरीद्वितिये पृश्नयोऽजास्तृतीये त्रयश्चतुर्थेत्रिः पंचान्त्यास्तिस्रोगृत्र्समदइति । गतोविनियोगः ।