नवमं मण्डलम् - सूक्तम् 20

7 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.20 - सम्पूर्णम्

1 / 7
ऋक्: 9.20.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
9.20.1
प्र क॒विर्दे॒ववी᳚त॒ये॑व्यो॒ वारे᳚भिरर्षति ।
सा॒ह्वान्विश्वा᳚ अ॒भि स्पृधः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । क॒विः । दे॒व॑वी᳚तये । अव्यः᳚ । वारे᳚भिः । अ॒र्ष॒ति॒ ।
स॒ह्वान् । विश्वाः᳚ । अ॒भि । स्पृधः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविर्मेधावी सोमो देववीतये देवानां पानाय अव्यः अवेर्वारेभिः वारैः दशापवित्रैः प्रार्षति प्रकर्षेणगच्छति । साह्वान् शत्रूणां सोढा सोमोविश्वाः स्पृधः सर्वान् संग्रामान् हिंसकान्वा अभिभवतीतिशेषः ॥ १ ॥

9.20.2
स हि ष्मा᳚ जरि॒तृभ्य॒ आ वाजं॒ गोम᳚न्त॒मिन्व᳚ति ।
पव᳚मानः सह॒स्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । हि । स्म॒ । ज॒रि॒तृ॑भ्यः᳚ । आ । वाज᳚म् । गो॑म᳚न्तम् । इन्व᳚ति ।
पव᳚मानः । स॒ह॒स्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहिष्म सखलु पवमानः सोमोजरितृभ्यः स्तोतृभ्यः गोमन्तं बहुभिर्गोभिर्युक्तं सहस्रिणं सहस्रसंख्याकं वाजमन्नं आ अभिमुखमिन्वति व्याप्नोति प्रयच्छतीत्यर्थः ॥ २ ॥

9.20.3
परि॒ विश्वा᳚नि॒ चेत᳚सा मृ॒शसे॒ पव᳚से म॒ती ।
स नः᳚ सोम॒ श्रवो᳚ विदः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । विश्वा᳚नि । चेत᳚सा । मृ॒शसे᳚ । पव᳚से । म॒ती ।
सः । नः॒ । सो॒म॒ । श्रवः᳚ । वि॒दः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं चेतसा स्वकीयेनास्मदनुकूलेन चित्तेन विश्वानि सर्वाणि धनानि परिमृशसे संप्रयच्छसीत्यर्थः । मती मत्यास्मत्स्तुत्या पवसे क्षरसि रसम् । सत्वं हे सोम नोस्मभ्यं श्रवोन्नं विदः देहि ॥ ३ ॥

9.20.4
अ॒भ्य᳚र्ष बृ॒हद्यशो᳚ म॒घव᳚द्भ्यो ध्रु॒वं र॒यिम् ।
इषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्ष॒ । बृ॒हत् । यशः᳚ । म॒घव᳚त्॑भ्यः । ध्रु॒वम् । र॒यिम् ।
इष᳚म् । स्तो॒तृ॑भ्यः । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम बृहद्यशो महतीं कीर्तिं अभ्यर्ष अभिगमय । मघवद्भ्योस्मभ्यं ध्रुवं रयिं धनंचाभ्यर्ष । किंच इषमन्नं स्तोतृभ्योस्मभ्यमाभराहर ॥ ४ ॥

9.20.5
त्वं राजे᳚व सुव्र॒तो गिरः᳚ सो॒मा वि᳚वेशिथ ।
पु॒ना॒नो व᳚ह्ने अद्भुत ॥
▶ पदपाठः (Word-by-word)
त्वम् । राजा᳚॑इव । सु॒॑व्र॒तः । गिरः᳚ । सो॒म॒ । आ । वि॒वे॒शि॒थ॒ ।
पु॒ना॒नः । व॒ह्ने॒ । अ॒द्भु॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सीम सुव्रतः सुकर्मा पुनानस्त्वं राजेव गिरोस्मदीयाः स्तुतीः आविवेशिथ आविशसि । हे वह्ने वोढः अद्भुत महन् सोम ॥ ५ ॥

9.20.6
स वह्नि᳚र॒प्सु दु॒ष्टरो᳚ मृ॒ज्यमा᳚नो॒ गभ᳚स्त्योः ।
सोम᳚श्च॒मूषु᳚ सीदति ॥
▶ पदपाठः (Word-by-word)
सः । वह्निः᳚ । अ॒प्॑सु । दु॒स्तरः᳚ । मृ॒ज्यमा᳚नः । गभ᳚स्त्योः ।
सोमः᳚ । च॒मूषु᳚ । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमो व्ह्निर्वोढा यज्ञादेः अप्स्वन्तरिक्षे वर्तमानो दुष्टरोदुःखेनान्यैस्तरणीयो मृज्यमानः शोध्यमानो गभस्त्योर्हस्तयोः एवंभूतःसन् सचमूषु पात्रेषु सीदति ॥ ६ ॥

9.20.7
क्री॒ळुर्म॒खो न मं᳚ह॒युः प॒वित्रं᳚ सोम गच्छसि ।
दध᳚त्स्तो॒त्रे सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
क्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र᳚म् । सो॒म॒ । ग॒च्छ॒सि॒ ।
दध᳚त् । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम क्रीळुः क्रीडनशीलस्त्वं मंहयुः मंहतिर्दानकर्मा दानेच्छुः मखोन दानमिव पवित्रं गच्छसि । किंकुर्वन् स्तोत्रे स्तुतिकर्त्रे सुवीर्यं शोभनवीर्यं दधत् प्रयच्छन् ॥ ७ ॥

एतेधावन्तीति सप्तर्चमेकविंशंसूक्तं ऋष्याद्याः पूर्ववत् । एतेधावन्तीत्यनुक्रान्तम् । गतोविनियोगः