विश्वा॒ परि᳚ प्रि॒या भु᳚व॒दध᳚ द्वि॒ता ॥
पदपाठः (Word-by-word)
विश्वा᳚ । परि᳚ । प्रि॒या । भु॒व॒त् । अध᳚ । द्वि॒ता ॥
सायणभाष्यम् (Sayana Commentary)
क्राणा करोतेः शानचि बहुलं छन्दसीति विकरणस्य लुक् सुपांसुलुगिति सुपआकारा- दशः । यज्ञं कुर्वाणः महीनां महतीनां मंहनीयानांवा अपां शिशुः पुत्रस्थानीयः सोमः ऋतस्य यज्ञस्य दीधितिं प्रकाशकं धारकं वा स्वीयं रसं हिन्वन् प्रेरयन् विश्वा सर्वाणि प्रिया प्रियाणि हवींषि परिभुवत् परिभवति व्याप्नोति । अधापिच द्विता द्विधाभवति दिविच पृथिव्यां च वर्ततइत्यर्थः ॥ १ ॥