श्रवणम्

9.102.6
यमी॒ गर्भ᳚मृता॒वृधो᳚ दृ॒शे चारु॒मजी᳚जनन् ।
क॒विं मंहि᳚ष्ठमध्व॒रे पु᳚रु॒स्पृह᳚म् ॥
▶ पदपाठः (Word-by-word)
यम् । ई॒मिति᳚ । गर्भ᳚म् । ऋ॒त॒॑वृधः᳚ । दृ॒शे । चारु᳚म् । अजी᳚जनन् ।
क॒विम् । मंहि᳚ष्ठम् । अ॒ध्व॒रे । पु॒रु॒॑स्पृह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावृधः यज्ञस्यवर्धयित्र्यः वसतीवर्याख्याआपः गर्भं गर्भस्थानीयं ईमेनं यं सोमं अध्वरे यज्ञे दृशे दर्शनाय अजीजनन् उदपादयन् । कीदृशं चारुं सर्वेषां कल्याणरूपं कविं क्रान्तप्रज्ञं मंहिष्ठं पूज्यतमं दातृतमंवा । अतएव पुरुस्पृहं बहुभिः स्पृहणीयं सोमं देवाः सेवन्तइति पूर्वेण समन्वयः ॥ ६ ॥