श्रवणम्

9.102.5
अ॒स्य व्र॒ते स॒जोष᳚सो॒ विश्वे᳚ दे॒वासो᳚ अ॒द्रुहः᳚ ।
स्पा॒र्हा भ᳚वन्ति॒ रन्त᳚यो जु॒षन्त॒ यत् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । व्र॒ते । स॒॑जोष᳚सः । विश्वे᳚ । दे॒वासः᳚ । अ॒द्रुहः᳚ ।
स्पा॒र्हाः । भ॒व॒न्ति॒ । रन्त᳚यः । जु॒षन्त᳚ । यत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्रुहोद्रोहवर्जिताः विश्वे सर्वे देद्वासोदेवाः अस्य सोमस्य व्रते कर्मणि सजोषसः संग- ताः सन्तः स्पार्हाः स्पृहणीयाभवन्ति । रन्तयो रमणशीलाः देवाः सुतमेनं सोमं यद्यदि जुषन्त सेवन्ते तर्हि स्पृहणीया भवन्ति ॥ ५ ॥