श्रवणम्

9.102.4
ज॒ज्ञा॒नं स॒प्त मा॒तरो᳚ वे॒धाम᳚शासत श्रि॒ये ।
अ॒यं ध्रु॒वो र᳚यी॒णां चिके᳚त॒ यत् ॥
▶ पदपाठः (Word-by-word)
ज॒ज्ञा॒नम् । स॒प्त । मा॒तरः᳚ । वे॒धाम् । अ॒शा॒स॒त॒ । श्रि॒ये ।
अ॒यम् । ध्रु॒वः । र॒यी॒णाम् । चिके᳚त । यत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

जज्ञानं प्रादुर्भूतं वेधां कर्मणोविधातारं सोमं सप्त सप्तसंख्याकामातरो गंगाद्यानद्यः स- प्तच्छंदांसिवा श्रिये यजमानानां ऎश्वर्यार्थं आशासत अनुशासन्ति अनुशासनं कुर्वन्ति । शास्तेर्लङि व्यत्ययेनात्मनेपदम् । यद्यस्मात् ध्रुवोयं सोमः रयीणां धनानि चिकेत जानाति । तस्मादस्यानुशासने कृते यजमानानां धनादिसमृद्धिर्भवति ॥ ४ ॥