श्रवणम्

9.102.3
त्रीणि᳚ त्रि॒तस्य॒ धार᳚या पृ॒ष्ठेष्वेर᳚या र॒यिम् ।
मिमी᳚ते अस्य॒ योज᳚ना॒ वि सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
त्रीणि᳚ । त्रि॒तस्य᳚ । धार᳚या । पृ॒ष्ठेषु᳚ । आ । ई॒र॒य॒ । र॒यिम् ।
मिमी᳚ते । अ॒स्य॒ । योज᳚ना । वि । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्रितस्य मम यज्ञस्य स्वभूतानि त्रीणिसवनानि धारया आत्मीयया विधारय । किंच पृष्टेषु सामसु रयिं दातारमिन्द्रं एरय आगमय सुक्रतुः सुप्रज्ञः स्तोता अस्येन्द्रस्य योजना योजनानि योजनकारीणि स्तोत्राणि विमिमीते करोति यस्मादेवं तस्मादिन्द्रं सामसु प्रेरयेत्यर्थः ॥ ३ ॥