श्रवणम्

9.102.7
स॒मी॒ची॒ने अ॒भि त्मना᳚ य॒ह्वी ऋ॒तस्य᳚ मा॒तरा᳚ ।
त॒न्वा॒ना य॒ज्ञमा᳚नु॒षग्यद᳚ञ्ज॒ते ॥
▶ पदपाठः (Word-by-word)
स॒मी॒चीने इति᳚ स॒म्॑ई॒ची॒ने । अ॒भि । त्मना᳚ । य॒ह्वी इति᳚ । ऋ॒तस्य᳚ । मा॒तरा᳚ ।
त॒न्वा॒नाः । य॒ज्ञम् । आ॒नु॒षक् । यत् । अ॒ञ्ज॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

ससोमः समीचीने परस्परं संगते यह्वी महत्यौ ऋतस्य यज्ञस्य मातरा निर्मात्र्यौ द्यावापृथिव्यौ त्मना आत्मना स्वयमेव तदाभिगच्छति । यद्यदा यज्ञं तन्वानाः अध्वर्यव आनुषक् अनुषक्तं च वसतीवरीभिरंजते सोमं मिश्रयन्ति तदा स्वयमभिगच्छति ॥ ७ ॥