श्रवणम्

9.102.2
उप᳚ त्रि॒तस्य᳚ पा॒ष्यो॒३॒᳚रभ᳚क्त॒ यद्गुहा᳚ प॒दम् ।
य॒ज्ञस्य᳚ स॒प्त धाम᳚भि॒रध᳚ प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । त्रि॒तस्य᳚ । पा॒ष्योः᳚ । अभ᳚क्त । यत् । गुहा᳚ । प॒दम् ।
य॒ज्ञस्य᳚ । स॒प्त । धाम᳚॑भिः । अध᳚ । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रितस्य मम यज्ञे गुहा गुहायां हविर्धाने वर्तमानयोः पाष्योः पाषाणवत् दृढयोः अ- धिषवणफलकयोः पदं स्थानं सोमो यद्यदा उपाभक्त समभजत । अधानन्तरं यज्ञस्य धा- मभिर्धारकैः सप्त सप्तभिः छन्दोभिः गायत्र्यादिभिः प्रियं प्रीणयितारं सोममभिष्टुवन्ति ऋत्विजः । अपिवा सप्तसर्पणशीलैः वसतीवर्यादिभिरुदकैः सोममभिषुण्वन्ति ॥ २ ॥