क्रत्वा᳚ शु॒क्रेभि᳚र॒क्षभि᳚रृ॒णोरप᳚ व्र॒जं दि॒वः ।
हि॒न्वन्नृ॒तस्य॒ दीधि᳚तिं॒ प्राध्व॒रे ॥
हि॒न्वन्नृ॒तस्य॒ दीधि᳚तिं॒ प्राध्व॒रे ॥
पदपाठः (Word-by-word)
क्रत्वा᳚ । शु॒क्रेभिः᳚ । अ॒क्ष॑भिः᳚ । ऋ॒णोः । अप᳚ । व्र॒जम् । दि॒वः ।
हि॒न्वन् । ऋ॒तस्य᳚ । दीधि᳚तिम् । प्र । अ॒ध्व॒रे ॥
हि॒न्वन् । ऋ॒तस्य᳚ । दीधि᳚तिम् । प्र । अ॒ध्व॒रे ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं क्रत्वा कर्मणा ज्ञानेनवा शुक्रेभिः शुक्रैर्दीप्यमानैः अक्षभिरक्षैः इन्द्रियैरि- वाश्नुवानैः स्वतेजोभिः व्रजं अंधकारसमूहं दिवोन्त्रिक्षात् अपऋणोः अपगमय विनाशय । ऋणुगतौ तानादिकः । किंकुर्वन् अध्वरे हिंसारहिते यज्ञे ऋतस्य यज्ञस्य दीधितिं धारकं स्वीयं रसं प्रहिन्वन् प्रेरयन् अनेन लोकद्वयवर्तित्वमभिहितं ॥ ८ ॥
प्रपुनानायेति षळृचं सप्तमं सूक्तम् । आप्त्यस्य द्वितस्यार्षं पूर्ववत् छंदोदेवते । तथाचानु क्रम्यते—प्रपुनानायषट् द्वितआप्त्यइति । गतोविनियोगः ।