नवमं मण्डलम् - सूक्तम् 41

6 ऋचः

ऋषिः: मेध्यातिथिः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.41 - सम्पूर्णम्

1 / 6
ऋक्: 9.41.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.41.1
प्र ये गावो॒ न भूर्ण᳚यस्त्वे॒षा अ॒यासो॒ अक्र᳚मुः ।
घ्नन्त᳚ः कृ॒ष्णामप॒ त्वच᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । ये । गावः᳚ । न । भूर्ण᳚यः । त्वे॒षाः । अ॒यासः᳚ । अक्र᳚मुः ।
घ्नन्तः᳚ । कृ॒ष्णाम् । अप᳚ । त्वच᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये अभिषुताः सोमाः गावोन उदकानीव तानि यथा तूर्णमधः पतन्ति तद्वत् एवंचोपमीयन्ते । यद्वा गावः स्वगोष्ठं प्रत्याशु गच्छन्ति तद्वत् । अथवा गावः स्तुतिवाचः तायथा स्तुत्यं प्रति क्षिप्रं प्राप्नुवन्ति तद्वत् । भूर्णयः क्षिप्राः त्वेषाः दीप्ताः अयासः अयाः गमनशीलाः कृष्णां त्वचं कृष्णा त्वग्रक्षाः तं निघ्नंतः । त्वचिः संवरणकर्मा । ईदृग्भूताः सोमाः अक्रमुः तान् स्तुवतेतिशेषः ॥ १ ॥

9.41.2
सु॒वि॒तस्य᳚ मनाम॒हे॑ति॒ सेतुं᳚ दुरा॒व्य᳚म् ।
सा॒ह्वांसो॒ दस्यु᳚मव्र॒तम् ॥
▶ पदपाठः (Word-by-word)
सु॒वि॒तस्य᳚ । म॒ना॒म॒हे॒ । अति᳚ । सेतु᳚म् । दुः॒॑आ॒व्य᳚म् ।
सा॒ह्वांसः᳚ । दस्यु᳚म् । अ॒व्र॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवितस्य शोभनंप्राप्तः सुवितः शोभनस्य सोमस्य सेतुं रक्षोविषयं बन्धं दुष्टमतिं च रक्षसां बंधनं तेषां हननबुद्धिंच सोमकर्तृका मनामहे स्तुमः । कथंस्तुमइति तदुच्यते अव्रतं दुराव्यं तद्ध्वूयं कर्माणं दस्युं शत्रुं साहवांसोभिभवन्तः ॥ २ ॥

9.41.3
शृ॒ण्वे वृ॒ष्टेरि᳚व स्व॒नः पव᳚मानस्य शु॒ष्मिणः᳚ ।
चर᳚न्ति वि॒द्युतो᳚ दि॒वि ॥
▶ पदपाठः (Word-by-word)
शृ॒ण्वे । वृ॒ष्टेः॑इ᳚व । स्व॒नः । पव᳚मानस्य । शु॒ष्मिणः᳚ ।
चर᳚न्ति । वि॒॑द्युतः᳚ । दि॒वि ॥
▶ सायणभाष्यम् (Sayana Commentary)

शृण्वे श्रूयते किं सोमस्वनः । किमिव वृष्टेर्वर्षणस्य स्वनइव तस्य यथा महान् स्वनः श्रूयते तद्वत् पुभूतरसापातसमये श्रूयते । कस्य स्वनइति तत्राह पवमानस्य पूयमानस्य शुष्मिणोबलवतः तस्यैव विद्युतोदीप्तयो दिव्यन्तरिक्षे चरन्ति ॥ ३ ॥

9.41.4
आ प᳚वस्व म॒हीमिषं॒ गोम᳚दिन्दो॒ हिर᳚ण्यवत् ।
अश्वा᳚व॒द्वाज᳚वत्सु॒तः ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । म॒हीम् । इष᳚म् । गो॑म᳚त् । इ॒न्दो॒ इति᳚ । हिर᳚ण्य॑वत् ।
अश्व᳚॑वत् । वाज᳚॑वत् । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम सुतोभिषुतस्त्वं महीमिषं महदन्नं आपवस्व । कीदृशमन्नं गोमत् बहुगोभिरुपेतं एवं हिरण्यवत् हिरण्यैः अश्ववत् अश्वैः वाजवत् वाजैर्बलैश्चोपेतं ॥ ४ ॥

9.41.5
स प᳚वस्व विचर्षण॒ आ म॒ही रोद᳚सी पृण ।
उ॒षाः सूर्यो॒ न र॒श्मिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । प॒व॒स्व॒ । वि॒॑च॒र्ष॒णे॒ । आ । म॒ही इति᳚ । रोद᳚सी॒ इति᳚ । पृ॒ण॒ ।
उ॒षाः । सूर्यः᳚ । न । र॒श्मि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विचर्षणे विद्रष्टः सोम स्त्वं पवस्व क्षर रसम् । तथा कृत्वा तेनरसेन मही महत्यौ रोदसी द्यावापृथिव्यौ आपृण आपूरय उषाः उषसाः एकदेशवाचिनोषःशब्देन तदुपलक्षितमहरुच्यते तत् प्राधान्यात् अहानि रश्मिभिः सूर्योन सूर्यइव ॥ ५ ॥

9.41.6
परि᳚ णः शर्म॒यन्त्या॒ धार᳚या सोम वि॒श्वतः᳚ ।
सरा᳚ र॒सेव᳚ वि॒ष्टप᳚म् ॥
▶ पदपाठः (Word-by-word)
परि᳚ । नः॒ । श॒र्म॒॑यन्त्या᳚ । धार᳚या । सो॒म॒ । वि॒श्वतः᳚ ।
सर᳚ । र॒सा॑इ᳚व । वि॒ष्टप᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम नोस्मभ्यं शर्मयंत्या सुखयन्त्या धारया विश्वतः सर्वतः परिसर परिचर रसेव रसेनेव विष्टपं भूलोकम् । यद्वा रसा नदी स्थानं सा प्रवणरूप- मिव ॥ ६ ॥

जनयन्निति षळृचमष्टादशंसूक्तं ऋष्याद्याः पूर्ववत् । जनयन्नित्यनुक्रान्तम् । गतोविनियोगः ।