नवमं मण्डलम् - सूक्तम् 45

6 ऋचः

ऋषिः: अयास्यः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.45 - सम्पूर्णम्

1 / 6
ऋक्: 9.45.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.45.1
स प᳚वस्व॒ मदा᳚य॒ कं नृ॒चक्षा᳚ दे॒ववी᳚तये ।
इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
सः । प॒व॒स्व॒ । मदा᳚य । कम् । नृ॒॑चक्षाः᳚ । दे॒व॑वी᳚तये ।
इन्दो॒ इति᳚ । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्रो सोम नृचक्षाः नॄणां नेतॄणां द्रष्टः सत्वं देववीतये यज्ञायेन्द्रायेन्द्रस्य पीतये पानाय च मदाय मदार्थं च कं सुखं यथा भवति तथा पवस्व क्षर ॥ १ ॥

9.45.2
स नो᳚ अर्षा॒भि दू॒त्यं१॒᳚ त्वमिन्द्रा᳚य तोशसे ।
दे॒वान्त्सखि᳚भ्य॒ आ वर᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । अ॒र्ष॒ । अ॒भि । दू॒त्य᳚म् । त्वम् । इन्द्रा᳚य । तो॒श॒से॒ ।
दे॒वान् । सखि᳚॑भ्यः । आ । वर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्माकं दूत्यं दूतस्यकर्मार्षाभिगच्छ । अपिच यस्त्वमिन्द्रायेन्द्रायेन्द्रार्थं तोशसे पीयसे सत्वं शाकिभ्यः प्रियभ्योस्मभ्यं वरं श्रेष्ठं धनं देवानापवस्वेत्यर्थः ॥ २ ॥

9.45.3
उ॒त त्वाम᳚रु॒णं व॒यं गोभि᳚रञ्ज्मो॒ मदा᳚य॒ कम् ।
वि नो᳚ रा॒ये दुरो᳚ वृधि ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभिः᳚ । अ॒ञ्ज्मः॒ । मदा᳚य । कम् ।
वि । नः॒ । रा॒ये । दुरः᳚ । वृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हे सोम यमरुणमरुणवर्णं त्वां मदाय मदार्थं वयमांगिरसायास्याः गोभिः गोविकारैः पयोभिः रंज्मोवासयामः संस्कुर्मः । कमिति पूरणम् । सत्वं नोस्माकं राये धनाय दुरोद्वाराणि विवृधि विवृतानि कुरु ॥ ३ ॥

9.45.4
अत्यू᳚ प॒वित्र᳚मक्रमीद्वा॒जी धुरं॒ न याम᳚नि ।
इन्दु᳚र्दे॒वेषु᳚ पत्यते ॥
▶ पदपाठः (Word-by-word)
अति᳚ । ऊं॒ इति᳚ । प॒वित्र᳚म् । अ॒क्र॒मी॒त् । वा॒जी । धुर᳚म् । न । याम᳚नि ।
इन्दुः᳚ । दे॒वेषु᳚ । प॒त्य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दुः सोमोवाज्यश्वोयामनि गमने धुरं न रथस्य धुरं यथा तथा पवित्रमत्यक्रमीदतिग च्छति । देवेषु देवानां मध्ये पत्यते गच्छति च ॥ ४ ॥

9.45.5
समी॒ सखा᳚यो अस्वर॒न्वने॒ क्रीळ᳚न्त॒मत्य᳚विम् ।
इन्दुं᳚ ना॒वा अ᳚नूषत ॥
▶ पदपाठः (Word-by-word)
सम् । ई॒मिति᳚ । सखा᳚यः । अ॒स्व॒र॒न् । वने᳚ । क्रीळ᳚न्तम् । अति᳚॑अविम् ।
इन्दु᳚म् । ना॒वाः । अ॒नू॒ष॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्यविमतिक्रान्तं दशापवित्रं वने उदके क्रीळन्तं संक्रीडमानमीमेनमिन्दुं सोमं सखायः प्रियस्तोतारः समस्वरन् संस्तुवन्ति । नावाः वाचोप्यनूषतास्तुवन् । नौ अक्षरमिति वाङ् नामसु पाठात् ॥ ५ ॥

9.45.6
तया᳚ पवस्व॒ धार᳚या॒ यया᳚ पी॒तो वि॒चक्ष᳚से ।
इन्दो᳚ स्तो॒त्रे सु॒वीर्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तया᳚ । प॒व॒स्व॒ । धार᳚या । यया᳚ । पी॒तः । वि॒॑चक्ष᳚से ।
इन्दो॒ इति᳚ । स्तो॒त्रे । सु॒॑वीर्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो त्वं यया धारया पीतः सन् विचक्षसे विचक्षणाय स्तोत्रे स्तोत्राणां कर्त्रे पुरुषाय सुवीर्यं शोभनवीर्यं प्रयच्छसीतिशेषः । तया धारया पवस्व क्षर ॥ ६ ॥

असृग्रन्निति षळृचं द्वविंशं सूक्तं ऋष्याद्याः पूर्ववत् । असृग्रन्नित्यनुक्रान्तम् । गतोविनियगः ।