नवमं मण्डलम् - सूक्तम् 54

4 ऋचः

ऋषिः: अवत्सारः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.54 - सम्पूर्णम्

1 / 4
ऋक्: 9.54.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (4)
9.54.1
अ॒स्य प्र॒त्नामनु॒ द्युतं᳚ शु॒क्रं दु᳚दुह्रे॒ अह्र᳚यः ।
पयः᳚ सहस्र॒सामृषि᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । प्र॒त्नाम् । अनु᳚ । द्युत᳚म् । शु॒क्रम् । दु॒दु॒ह्रे॒ । अह्र᳚यः ।
पयः᳚ । स॒ह॒स्र॒॑साम् । ऋषि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य सोमस्य प्रत्नां पुराणां द्युतं द्योतमानं तनुमनु शुक्रं दीप्तं सहस्रसां अभिलषितस्यापरि मितस्य कर्मफलस्य दातारं ऋषिं सरणशीलं पयः पातव्यं रसमह्रयः कवयोदुदुह्रे दुहन्ति ॥ १ ॥

9.54.2
अ॒यं सूर्य᳚ इवोप॒दृग॒यं सरां᳚सि धावति ।
स॒प्त प्र॒वत॒ आ दिव᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सूर्यः᳚॑इव । उ॒प॒॑दृक् । अ॒यम् । सरां᳚सि । धा॒व॒ति॒ ।
स॒प्त । प्र॒॑वतः᳚ । आ । दिव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः सूर्यइव यथासूर्यः सर्वस्यलोकस्योपद्रष्टा तद्वत् कर्मणामुपदृगुपद्रष्टा अपि चायं सोमः सरांसि त्रिंशदुक्थपात्राणीति केचिद्वर्णयन्ति अपरेतु त्रिंशदहोरात्राणि सरांसीति तानि धावति गच्छति । तथाचयास्कः—तत्रैतद्याज्ञिकावेदयन्ते त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि तान्येतस्मिन्कालएकेनप्रतिधानेन पिबन्ति तान्यत्र सरांस्युच्यन्ते त्रिंशदपरपक्ष स्याहोरात्रास्त्रिंशत्पूर्वपक्षस्येतिनैरुक्ताइति । अपिचायं सोमोदिवमधिकृत्य सप्तप्रवतः सप्तन्दी रात्रिष्ठति ॥ २ ॥

9.54.3
अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव᳚नो॒परि᳚ ।
सोमो᳚ दे॒वो न सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । विश्वा᳚नि । ति॒ष्ठ॒ति॒ । पु॒ना॒नः । भुव᳚ना । उ॒परि᳚ ।
सोमः᳚ । दि॒वः । न । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानाः पूयमानोयं सोमो विश्वानि सर्वाणि भुवना भुवनानि सर्वेषां भुवनानामुपरिति- ष्ठति । तत्रदृष्टान्तमाह—देवोन सूर्यः यथा सूर्योदेवः सर्वेषां भुवनानामुपरि तिष्ठति तद्वदयं सोमोपीत्यर्थः ॥ ३ ॥

9.54.4
परि᳚ णो दे॒ववी᳚तये॒ वाजा{4}᳚ अर्षसि॒ गोम᳚तः ।
पु॒ना॒न इ᳚न्दविन्द्र॒युः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । नः॒ । दे॒व॑वी᳚तये । वाजा᳚न् । अ॒र्ष॒सि॒ । गो॑म᳚तः ।
पु॒ना॒नः । इ॒न्दो॒ इति᳚ । इ॒न्द्र॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम इन्द्रयुरिन्द्रकामः पुनानः पूयमानस्त्वं नोस्माकं देववीतये यज्ञाय गोमतोगो- युक्तानि वाजानन्नानि पर्यर्षसि परितः क्षरेत्यर्थः ॥ ४ ॥

यवंयवंनइति चतुरृचमेकत्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षं गायत्रं पवमानसोमदेवताकम् । यवंयवमित्यनुक्रान्तम् । गतोविनियोगः ।