श्रवणम्

9.54.3
अ॒यं विश्वा᳚नि तिष्ठति पुना॒नो भुव᳚नो॒परि᳚ ।
सोमो᳚ दे॒वो न सूर्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । विश्वा᳚नि । ति॒ष्ठ॒ति॒ । पु॒ना॒नः । भुव᳚ना । उ॒परि᳚ ।
सोमः᳚ । दि॒वः । न । सूर्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानाः पूयमानोयं सोमो विश्वानि सर्वाणि भुवना भुवनानि सर्वेषां भुवनानामुपरिति- ष्ठति । तत्रदृष्टान्तमाह—देवोन सूर्यः यथा सूर्योदेवः सर्वेषां भुवनानामुपरि तिष्ठति तद्वदयं सोमोपीत्यर्थः ॥ ३ ॥