अ॒यं सूर्य᳚ इवोप॒दृग॒यं सरां᳚सि धावति ।
स॒प्त प्र॒वत॒ आ दिव᳚म् ॥
स॒प्त प्र॒वत॒ आ दिव᳚म् ॥
पदपाठः (Word-by-word)
अ॒यम् । सूर्यः᳚॑इव । उ॒प॒॑दृक् । अ॒यम् । सरां᳚सि । धा॒व॒ति॒ ।
स॒प्त । प्र॒॑वतः᳚ । आ । दिव᳚म् ॥
स॒प्त । प्र॒॑वतः᳚ । आ । दिव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अयं सोमः सूर्यइव यथासूर्यः सर्वस्यलोकस्योपद्रष्टा तद्वत् कर्मणामुपदृगुपद्रष्टा अपि चायं सोमः सरांसि त्रिंशदुक्थपात्राणीति केचिद्वर्णयन्ति अपरेतु त्रिंशदहोरात्राणि सरांसीति तानि धावति गच्छति । तथाचयास्कः—तत्रैतद्याज्ञिकावेदयन्ते त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि तान्येतस्मिन्कालएकेनप्रतिधानेन पिबन्ति तान्यत्र सरांस्युच्यन्ते त्रिंशदपरपक्ष स्याहोरात्रास्त्रिंशत्पूर्वपक्षस्येतिनैरुक्ताइति । अपिचायं सोमोदिवमधिकृत्य सप्तप्रवतः सप्तन्दी रात्रिष्ठति ॥ २ ॥