नवमं मण्डलम् - सूक्तम् 88

8 ऋचः

ऋषिः: उशनाः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.88 - सम्पूर्णम्

1 / 8
ऋक्: 9.88.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
9.88.1
अ॒यं सोम᳚ इन्द्र॒ तुभ्यं᳚ सुन्वे॒ तुभ्यं᳚ पवते॒ त्वम᳚स्य पाहि ।
त्वं ह॒ यं च᳚कृ॒षे त्वं व᳚वृ॒ष इन्दुं॒ मदा᳚य॒ युज्या᳚य॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । सोमः᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । सु॒न्वे॒ । तुभ्य᳚म् । प॒व॒ते॒ । त्वम् । अ॒स्य॒ । पा॒हि॒ ।
त्वम् । ह॒ । यम् । च॒कृ॒षे । त्वम् । व॒वृ॒षे । इन्दु᳚म् । मदा᳚य । युज्या᳚य । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्रअयं सोमः तुभ्यं त्वदर्थं सुन्वे सूयते सुनोतेः कर्मार्थे लटी लोपस्तआत्मनेपदे- ष्विति तलोपः तुभ्यं त्वदर्थमेव पवते पूयते त्वंचास्य अमुंपाहि पिब त्वंह यं इंदुं सोमं चकृषे करोषि त्वंच यं ववृषे वृतवानसि किमर्थं मदाय युज्याय सहायाय सोमं इन्द्राय बलकरत्वात् सहायइतिप्रसिद्धं यमेवंकरोषित्वं तंपाहीतिसमन्वयः ॥ १ ॥

9.88.2
स ईं॒ रथो॒ न भु᳚रि॒षाळ᳚योजि म॒हः पु॒रूणि᳚ सा॒तये॒ वसू᳚नि ।
आदीं॒ विश्वा᳚ नहु॒ष्या᳚णि जा॒ता स्व᳚र्षाता॒ वन᳚ ऊ॒र्ध्वा न᳚वन्त ॥
▶ पदपाठः (Word-by-word)
सः । ई॒मिति᳚ । रथः᳚ । न । भु॒रि॒षाट् । अ॒यो॒जि॒ । म॒हः । पु॒रूणि᳚ । सा॒तये᳚ । वसू᳚नि ।
आत् । ई॒मिति᳚ । विश्वा᳚ । न॒हु॒ष्या᳚णि । जा॒ता । स्वः᳚॑साता । वने᳚ । ऊ॒र्ध्वा । न॒व॒न्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सईं सोयं सोमः भुरिषाट् भूरिभारस्यसोढा रथोन रथइव भुरिषाट् प्रभूतस्य भारस्य सोढा अयोजि युज्यते । कीदृशः समहोमहान् किमर्थमयोजि पुरूणि बहूनि वसूनि धनानि सातयेस्मभ्यंदातुम् । आदींयोगानंतरं विश्वा विश्वानि सर्वाणि नहुष्याणि नहुषोमनुष्यास्ते- यां संबंधीनि जाता जातानि अस्मद्विरोधीनि ऊर्ध्वा उन्मुखानि वने वननीये स्वर्षाता स्वर्षातौ संग्रामनामैतत् स्वर्गलाभयुक्ते । संग्रामे नवंत गच्छन्तु । नवितिर्गतिकर्मा यद्वा सोमं संग्रामे युद्धार्थिनः संगच्छन्ति ॥ २ ॥

9.88.3
वा॒युर्न यो नि॒युत्वा{4}᳚ इ॒ष्टया᳚मा॒ नास᳚त्येव॒ हव॒ आ शम्भ᳚विष्ठः ।
वि॒श्ववा᳚रो द्रविणो॒दा इ᳚व॒ त्मन्पू॒षेव᳚ धी॒जव᳚नो॑सि सोम ॥
▶ पदपाठः (Word-by-word)
वा॒युः । न । यः । नि॒युत्वा᳚न् । इ॒ष्ट॑या᳚मा । नास᳚त्या॑इव । हवे᳚ । आ । शम्॑भ᳚विष्ठः ।
वि॒श्व॑वा᳚रः । द्र॒वि॒णो॒दाः॑इ᳚व । त्मन् । पू॒षा॑इ᳚व । धी॒॑जव᳚नः । अ॒सि॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सोमोनियुत्वान् नियुतोवायोरश्वाः तद्वान् वायुर्न वायुरिव इष्टयामा इष्टगमनः । नासत्येव अश्विनाविव हवे ह्वमह्वानमाकर्ण्य आसर्वतः शंभविष्ठः सुखस्यभावयितृतमः द्रविणोदातेव त्मन् आत्मनि विश्ववारोविश्वैर्वरणीयोभवति तद्वद्विश्ववारोसि । पूषेवपोषकः सवितेवधीजवनोवेगोसि । यद्वा कर्मणांप्रवर्तयितासि हे सोम ॥ ३ ॥

9.88.4
इन्द्रो॒ न यो म॒हा कर्मा᳚णि॒ चक्रि᳚र्ह॒न्ता वृ॒त्राणा᳚मसि सोम पू॒र्भित् ।
पै॒द्वो न हि त्वमहि᳚नाम्नां ह॒न्ता विश्व᳚स्यासि सोम॒ दस्यो᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । न । यः । म॒हा । कर्मा᳚णि । चक्रिः᳚ । ह॒न्ता । वृ॒त्राणा᳚म् । अ॒सि॒ । सो॒म॒ । पूः॒॑भित् ।
पै॒द्वः । न । हि । त्वम् । अहि᳚॑नाम्नाम् । ह॒न्ता । विश्व᳚स्य । अ॒सि॒ । सो॒म॒ । दस्योः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रोन इन्द्रइव यस्त्वं महा महान्ति कर्माणि चक्रिः ताच्छील्येन करोषि सत्वं हे- सोम वृत्राणां शत्रूणां हन्तासि भवसि । तथा पूर्भित् पुरांभेत्तासि । किंच पैद्वोनहि अश्व- इवखलु अहिनाम्नां हन्ताभवसि । आगत्यहन्तीत्यहिः तन्नामकानामित्यर्थः । नकेवलंतेषा- मेव अपितु विश्वस्यापि सर्वस्यापि दस्योः उपक्षपयितुः शत्रोर्हन्तासि ॥ ४ ॥

9.88.5
अ॒ग्निर्न यो वन॒ आ सृ॒ज्यमा᳚नो॒ वृथा॒ पाजां᳚सि कृणुते न॒दीषु᳚ ।
जनो॒ न युध्वा᳚ मह॒त उ᳚प॒ब्दिरिय᳚र्ति॒ सोम॒ः पव᳚मान ऊ॒र्मिम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । न । यः । वने᳚ । आ । सृ॒ज्यमा᳚नः । वृथा᳚ । पाजां᳚सि । कृ॒णु॒ते॒ । न॒दीषु᳚ ।
जनः᳚ । न । युध्वा᳚ । म॒ह॒तः । उ॒प॒ब्दिः । इय᳚र्ति । सोमः᳚ । पव᳚मानः । ऊ॒र्मिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्न अग्निरिव यः सोमोवने अरण्ये आसृज्यमानः वनसंबन्धी अग्निः यथा बलानि कुरुते एवंयः सोमोवृषा अनायासेन नदीष्वान्तरिक्षाणि पाजांसि कृणुते कुरुते । किंच युध्वा युद्धस्यकर्ता जनोन शूरो मनुष्यइव महतः शत्रोरुपब्दिः वाङ्मामैतत् शब्दयितासन् पवमानः पूयमानः सोमः ऊर्मिं प्रवृद्धं रसमियर्ति प्रेरयति ॥ ५ ॥

9.88.6 समानपद
ए॒ते सोमा॒ अति॒ वारा॒ण्यव्या᳚ दि॒व्या न कोशा᳚सो अ॒भ्रव᳚र्षाः ।
वृथा᳚ समु॒द्रं सिन्ध᳚वो॒ न नीची᳚ः सु॒तासो᳚ अ॒भि क॒लशा{4}᳚ असृग्रन् ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमाः᳚ । अति᳚ । वारा᳚णि । अव्या᳚ । दि॒व्या । न । कोशा᳚सः । अ॒भ्र॑व᳚र्षाः ।
वृथा᳚ । स॒मु॒द्रम् । सिन्ध᳚वः । न । नीचीः᳚ । सु॒तासः᳚ । अ॒भि । क॒लशा᳚न् । अ॒सृ॒ग्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते पूयमानाः सोमाः अव्या अविमयानि वाराणि वालानि अतिगच्छन्तीतिशॆषः तत्र दृष्टान्तः—दिव्यान कोशासः दिविभवाः कोशाः आपइव ताविशेष्यन्ते अभ्रवर्षाः अभ्रैर्वृष्य माणाः । किंच वृथा अनायासेन समृद्रं सिंधवोन नद्यइव नीचीः नीचीनाग्राः सुतासोभि- षुताः सोमाः कलशानभ्यसृग्रन् अभिगच्छन्ति ॥ ६ ॥

9.88.7
शु॒ष्मी शर्धो॒ न मारु᳚तं पव॒स्वान᳚भिशस्ता दि॒व्या यथा॒ विट् ।
आपो॒ न म॒क्षू सु᳚म॒तिर्भ᳚वा नः स॒हस्रा᳚प्साः पृतना॒षाण्न य॒ज्ञः ॥
▶ पदपाठः (Word-by-word)
शु॒ष्मी । शर्धः᳚ । न । मारु᳚तम् । प॒व॒स्व॒ । अन᳚भि॑शस्ता । दि॒व्या । यथा᳚ । विट् ।
आपः᳚ । न । म॒क्षु । सु॒॑म॒तिः । भ॒व॒ । नः॒ । स॒हस्र᳚॑अप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम शुष्मी शुष्मं बलं शोषणात् बलवांस्त्वं मारुतं शर्धोन मरुतां बलमिव पवस्व । तत्रदृष्टान्तमेवस्पष्टयति—यथा दिव्याविट् प्रजा अनभिशस्ता अभिशासोनिंदा अनिंदिता पवते । मरुतोवैदेवानांविशइतिहिब्राह्मणम् । किंच आपोन उदकानीव मक्षु क्षिप्रं पवमानस्त्वं सुमतिर्भव नोस्माकम् । किंच सहस्राप्साः अप्सइतिरूपनाम बहुरूपस्त्वं पृतनाषाट्न पृतनानामभिभवितेन्द्रइव यज्ञो यष्टव्योभवसीति ॥ ७ ॥

9.88.8
राज्ञो॒ नु ते॒ वरु᳚णस्य व्र॒तानि᳚ बृ॒हद्ग᳚भी॒रं तव᳚ सोम॒ धाम᳚ ।
शुचि॒ष्ट्वम᳚सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚ अर्य॒मेवा᳚सि सोम ॥
▶ पदपाठः (Word-by-word)
राज्ञः᳚ । नु । ते॒ । वरु᳚णस्य । व्र॒तानि᳚ । बृ॒हत् । ग॒भी॒रम् । तव᳚ । सो॒म॒ । धाम᳚ ।
शुचिः᳚ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः᳚ । अ॒र्य॒मा॑इ᳚व । अ॒सि॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वरुणस्य वारकस्य राज्ञः ते तव व्रतानि कर्माणि नुक्षिप्रं करोमीतिशॆषः । हे सोम तव धाम तेजःस्थानं बृहन्महत् गभीरंच प्रियोन मित्रइव त्वं शुचिर्दीप्तः शुद्धो- वासि अर्यमेव अर्यमादेवइव त्वं दक्षाय्योसि ॥ ८ ॥

प्रोस्यवह्निरिति सप्तर्चंचतर्थंसूक्तं ऋष्याद्याःपूर्ववत् । प्रोस्यसप्तेत्यनुक्रान्तम् । गतोविनि योगः ।