नवमं मण्डलम् - सूक्तम् 17

8 ऋचः

ऋषिः: असितः काश्यपो देवलो वा देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.17 - सम्पूर्णम्

1 / 8
ऋक्: 9.17.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
9.17.1
प्र नि॒म्नेने᳚व॒ सिन्ध᳚वो॒ घ्नन्तो᳚ वृ॒त्राणि॒ भूर्ण᳚यः ।
सोमा᳚ असृग्रमा॒शवः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । नि॒म्नेन᳚॑इव । सिन्ध᳚वः । घ्नन्तः᳚ । वृ॒त्राणि᳚ । भूर्ण᳚यः ।
सोमाः᳚ । अ॒सृ॒ग्र॒म् । आ॒शवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

निम्रेन प्रवणेन सिन्ध्वो नद्यइव तथा वृत्राणि शत्रून् घ्र्न्तो भूर्णयः क्षिप्रगमनाः । आशवोव्याप्ताः सोमाः प्रासृग्रं प्रगच्छन्ति द्रोणकलशं प्रति ॥ १ ॥

9.17.2
अ॒भि सु᳚वा॒नास॒ इन्द᳚वो वृ॒ष्टयः᳚ पृथि॒वीमि᳚व ।
इन्द्रं॒ सोमा᳚सो अक्षरन् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । सु॒वा॒नासः᳚ । इन्द᳚वः । वृ॒ष्टयः᳚ । पृ॒थि॒वीम्॑इ᳚व ।
इन्द्र᳚म् । सोमा᳚सः । अ॒क्ष॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुवानासः सुयमानाः इन्दवो द्रवरूपाः सोमासः सोमाः इन्द्रं प्रीणयितुं अभ्यक्षरन् किमिव वृष्टयः पृथिवीमिव ॥ २ ॥

9.17.3
अत्यू᳚र्मिर्मत्स॒रो मद॒ः सोमः᳚ प॒वित्रे᳚ अर्षति ।
वि॒घ्नन्रक्षां᳚सि देव॒युः ॥
▶ पदपाठः (Word-by-word)
अति᳚॑ऊर्मिः । म॒त्स॒रः । मदः᳚ । सोमः᳚ । प॒वित्रे᳚ । अ॒र्ष॒ति॒ ।
वि॒॑घ्नन् । रक्षां᳚सि । दे॒व॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यूर्मिः अतिक्रान्ता ऊर्मयोयस्मात् सअत्यूर्मिः अतिप्रवृद्धइत्यर्थः । मत्सरो मादनशीलो मदो मदात्मकः सोमः पवित्रे अर्षति गच्छति । किंकुर्वन् रक्षांसि विघ्नन् घातयन् देवयुर्देवान् कामयमानः अर्षतीति संबन्धः ॥ ३ ॥

9.17.4
आ क॒लशे᳚षु धावति प॒वित्रे॒ परि᳚ षिच्यते ।
उ॒क्थैर्य॒ज्ञेषु᳚ वर्धते ॥
▶ पदपाठः (Word-by-word)
आ । क॒लशे᳚षु । धा॒व॒ति॒ । प॒वित्रे᳚ । परि᳚ । सि॒च्य॒ते॒ ।
उ॒क्थैः । य॒ज्ञेषु᳚ । व॒र्ध॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमः कलोअशेष्वाधावति तदर्थं पवित्रे परिषच्यते अध्वर्युभिः उक्थैः स्तोत्रैः यज्ञाषु निमित्तेषु वर्धते प्रवृद्धोभवति ॥ ४ ॥

9.17.5
अति॒ त्री सो᳚म रोच॒ना रोह॒न्न भ्रा᳚जसे॒ दिव᳚म् ।
इ॒ष्णन्त्सूर्यं॒ न चो᳚दयः ॥
▶ पदपाठः (Word-by-word)
अति᳚ । त्री । सो॒म॒ । रो॒च॒ना । रोह᳚न् । न । भ्रा॒ज॒से॒ । दिव᳚म् ।
इ॒ष्णन् । सूर्य᳚म् । न । चो॒द॒यः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं त्रीरोचना रोचनानि त्रीन् लोकान् अति अतिक्रम्य रोहन् उपरिस्थं दिवंन द्युलोकंच भ्राजसे प्रकाशयसि । तथा इष्णन् गच्छन् सूर्यंन सूर्यंच चोदयः चोदयसि प्रेरयसि । नशब्दश्चार्थे ॥ ५ ॥

9.17.6
अ॒भि विप्रा᳚ अनूषत मू॒र्धन्य॒ज्ञस्य᳚ का॒रवः᳚ ।
दधा᳚ना॒श्चक्ष᳚सि प्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । विप्राः᳚ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य᳚ । का॒रवः᳚ ।
दधा᳚नाः । चक्ष᳚सि । प्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वां अभ्यनूपत अभिष्टुवन्ति विप्रामेधाविनः स्तोतारः । कुत्र यज्ञस्य मूर्धन् मूर्धनि शिरोवदुत्तमे अभिषवदिवसइत्यर्थः । कीदृशास्ते कारवः कर्तारः परिचर्यायाः यागानुष्ठातारोवा । चक्षसि द्रष्टरि सोमे प्रियंदधाना अभ्यनूषतेति समन्वयः ॥ ६ ॥

9.17.7
तमु᳚ त्वा वा॒जिनं॒ नरो᳚ धी॒भिर्विप्रा᳚ अव॒स्यवः᳚ ।
मृ॒जन्ति᳚ दे॒वता᳚तये ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । वा॒जिन᳚म् । नरः᳚ । धी॒भिः । विप्राः᳚ । अ॒व॒स्यवः᳚ ।
मृ॒जन्ति᳚ । दे॒व॑ता᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तमु तमेव त्वा त्वां वाजिनमन्नवन्तं गमनवन्तं वा नरोनेतारो विप्रामेधाविनः अध्वर्य्वादयः धीभिः कर्मभिर्मृजन्ति शोधयन्ति देवतातये यज्ञार्थम् । किमिच्छवः अवस्यवः अन्नमिच्छवः ॥ ७ ॥

9.17.8
मधो॒र्धारा॒मनु᳚ क्षर ती॒व्रः स॒धस्थ॒मास᳚दः ।
चारु᳚रृ॒ताय᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
मधोः᳚ । धारा᳚म् । अनु᳚ । क्ष॒र॒ । ती॒व्रः । स॒ध॑स्थ᳚म् । आ । अ॒स॒दः॒ ।
चारुः᳚ । ऋ॒ताय᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं मधोर्मधुररसस्य धारामनुक्षर प्रवहन् तीव्रः तीव्ररसः सन् सधस्थं सहस्थानं अभिषवस्थानं पवित्रंवा आसदः आसीद । चारुः चरणशीलःसन् ऋताय यज्ञार्थं पीत ये देवानां पानाय ॥ ८ ॥

परिसुवानइति सप्तर्चं अष्टादशं सूक्तम् । ऋष्यद्याः पूर्ववत् । परिसुवानः सप्तेत्यनुक्रान्तम् । गतोविनियोगः