मधो॒र्धारा॒मनु᳚ क्षर ती॒व्रः स॒धस्थ॒मास᳚दः ।
चारु᳚रृ॒ताय᳚ पी॒तये᳚ ॥
चारु᳚रृ॒ताय᳚ पी॒तये᳚ ॥
पदपाठः (Word-by-word)
मधोः᳚ । धारा᳚म् । अनु᳚ । क्ष॒र॒ । ती॒व्रः । स॒ध॑स्थ᳚म् । आ । अ॒स॒दः॒ ।
चारुः᳚ । ऋ॒ताय᳚ । पी॒तये᳚ ॥
चारुः᳚ । ऋ॒ताय᳚ । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं मधोर्मधुररसस्य धारामनुक्षर प्रवहन् तीव्रः तीव्ररसः सन् सधस्थं सहस्थानं अभिषवस्थानं पवित्रंवा आसदः आसीद । चारुः चरणशीलःसन् ऋताय यज्ञार्थं पीत ये देवानां पानाय ॥ ८ ॥
परिसुवानइति सप्तर्चं अष्टादशं सूक्तम् । ऋष्यद्याः पूर्ववत् । परिसुवानः सप्तेत्यनुक्रान्तम् । गतोविनियोगः