अ॒भि विप्रा᳚ अनूषत मू॒र्धन्य॒ज्ञस्य᳚ का॒रवः᳚ ।
दधा᳚ना॒श्चक्ष᳚सि प्रि॒यम् ॥
दधा᳚ना॒श्चक्ष᳚सि प्रि॒यम् ॥
पदपाठः (Word-by-word)
अ॒भि । विप्राः᳚ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य᳚ । का॒रवः᳚ ।
दधा᳚नाः । चक्ष᳚सि । प्रि॒यम् ॥
दधा᳚नाः । चक्ष᳚सि । प्रि॒यम् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वां अभ्यनूपत अभिष्टुवन्ति विप्रामेधाविनः स्तोतारः । कुत्र यज्ञस्य मूर्धन् मूर्धनि शिरोवदुत्तमे अभिषवदिवसइत्यर्थः । कीदृशास्ते कारवः कर्तारः परिचर्यायाः यागानुष्ठातारोवा । चक्षसि द्रष्टरि सोमे प्रियंदधाना अभ्यनूषतेति समन्वयः ॥ ६ ॥