नवमं मण्डलम् - सूक्तम् 93

5 ऋचः

ऋषिः: नोधाः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.93 - सम्पूर्णम्

1 / 5
ऋक्: 9.93.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
9.93.1
सा॒क॒मुक्षो᳚ मर्जयन्त॒ स्वसा᳚रो॒ दश॒ धीर᳚स्य धी॒तयो॒ धनु᳚त्रीः ।
हरि॒ः पर्य᳚द्रव॒ज्जाः सूर्य᳚स्य॒ द्रोणं᳚ ननक्षे॒ अत्यो॒ न वा॒जी ॥
▶ पदपाठः (Word-by-word)
सा॒क॒म्॑उक्षः᳚ । म॒र्ज॒य॒न्त॒ । स्वसा᳚रः । दश᳚ । धीर᳚स्य । धी॒तयः᳚ । धनु᳚त्रीः ।
हरिः᳚ । परि᳚ । अ॒द्र॒व॒त् । जाः । सूर्य᳚स्य । द्रोण᳚म् । न॒न॒क्षे॒ । अत्यः᳚ । न । वा॒जी ॥
▶ सायणभाष्यम् (Sayana Commentary)

साकमुक्षः सहयुगपत् सिंचंत्यः उक्षसेचने क्विपिरूपम् । तादृश्यः स्वसारः कर्मकरणार्थं इतस्ततः सुष्ठुगच्छंत्योंगुलयः मर्जयंत सोमंशोधयन्ति । मृजूशौचालंकारयोः । तथा दश दशसंख्याकाः धीतयः अंगुलिनामैतत् । अंगुलयः धीरस्य समर्थस्य प्राज्ञस्यवा देवैर्ध्यातव्य स्य काम्यमानस्यवा सोमस्य धनुत्रीः प्रेरेयित्र्योभवन्ति ततः हरिर्हरितवर्णः सोमः सूर्य- स्यजाः प्रादुर्भूता जायादिशः ताः पर्यद्रवत् परितोगच्छति । सूर्यतेजसाहि आविर्भवन्तीति दिशां तस्यजात्वम् । अत्यः अतनशीलोवाजीन अश्वइव स्थितः सोमः द्रोणं कलशं ननक्षे व्याप्नोति । नक्षतिर्व्याप्तिकर्मा ॥ १ ॥

9.93.2
सं मा॒तृभि॒र्न शिशु᳚र्वावशा॒नो वृषा᳚ दधन्वे पुरु॒वारो᳚ अ॒द्भिः ।
मर्यो॒ न योषा᳚म॒भि नि᳚ष्कृ॒तं यन्त्सं ग᳚च्छते क॒लश᳚ उ॒स्रिया᳚भिः ॥
▶ पदपाठः (Word-by-word)
सम् । मा॒तृ॑भिः᳚ । न । शिशुः᳚ । वा॒व॒शा॒नः । वृषा᳚ । द॒ध॒न्वे॒ । पु॒रु॒॑वारः᳚ । अ॒त्॑भिः ।
मर्यः᳚ । न । योषा᳚म् । अ॒भि । निः॒॑कृ॒तम् । यन् । सम् । ग॒च्छ॒ते॒ । क॒लशे᳚ । उ॒स्रिया᳚भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वावशानः देवान् कामयमानः वृषा कामानांवर्षकः अतएव पुरुवारः बहुर्भिर्वरणीयः सोमः अद्भिः मातृभूताभिः वसतीवरीभिः संदधन्वे संधार्यते । तत्रदृष्टान्तः—मातृभिर्नशि- शुः कामयमानः पुत्रोयथा मातृभिः पयःप्रदानेन संधार्यते । धविर्गत्यर्थः कर्मणिलिटिरूपम् । मर्योन मनुष्योयथा योषां युवतिं अभिगच्छति तद्वत् निष्कृतं संस्कृतं स्वस्थानं अभियन् अभिगच्छन् कलशे द्रोणाभिधाने अस्रियाभिरद्भिः गोविकारैः क्षीरादिभिर्वासंगच्छते । गमेरकर्मकात् समोगम्यृच्छीत्यात्मनेपदं ॥ २ ॥

9.93.3 समानपद
उ॒त प्र पि᳚प्य॒ ऊध॒रघ्न्या᳚या॒ इन्दु॒र्धारा᳚भिः सचते सुमे॒धाः ।
मू॒र्धानं॒ गाव॒ः पय᳚सा च॒मूष्व॒भि श्री᳚णन्ति॒ वसु᳚भि॒र्न नि॒क्तैः ॥
▶ पदपाठः (Word-by-word)
उ॒त । प्र । पि॒प्ये॒ । ऊधः᳚ । अघ्न्या᳚याः । इन्दुः᳚ । धारा᳚भिः । स॒च॒ते॒ । सु॒॑मे॒धाः ।
मू॒र्धान᳚म्् । गावः᳚ । पय᳚सा । च॒मूषु᳚ । अ॒भि । श्री॒ण॒न्ति॒ । वसु᳚॑भिः । न । नि॒क्तैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच अघ्न्यायाः अघ्न्येतिगोनाम अहंतव्यायागोरूधः पयःस्थानं सोमः प्रपिप्ये ओषध्यादिषु सोमः प्रविश्य प्रकर्षेणाप्याययति । प्यायतेर्लिटिलिड्यङोश्चेतिपीभावः । सुमेधाः शोभनप्रज्ञः सोयं इन्दुः सोमः धाराभिः सचते समवैति संगच्छते । ततोगावः चमूषु चमन्ति भक्षयंत्यत्रसोममिति चम्वोग्रहादयः तेषुस्थितं मूर्धानं समुच्छ्रितमिमंसोमं पयसा श्वेतेन अभिश्रीणंति अभितआच्छादयन्ति । तत्रदृष्टान्तः—निक्तैः प्रक्षालितैर्वसुभिर्न वस्त्रैर्यथा आच्छादयन्ति तद्वत् ॥ ३ ॥

9.93.4
स नो᳚ दे॒वेभि᳚ः पवमान र॒देन्दो᳚ र॒यिम॒श्विनं᳚ वावशा॒नः ।
र॒थि॒रा॒यता᳚मुश॒ती पुरं᳚धिरस्म॒द्र्य१॒᳚गा दा॒वने॒ वसू᳚नाम् ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । दे॒वेभिः᳚ । प॒व॒मा॒न॒ । र॒द॒ । इन्दो॒ इति᳚ । र॒यिम् । अ॒श्विन᳚म् । वा॒व॒शा॒नः ।
र॒थि॒रा॒यता᳚म् । उ॒श॒ती । पुर᳚म्॑धिः । अ॒स्म॒द्र्य᳚क् । आ । दा॒वने᳚ । वसू᳚नाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमानसोम सतादृशः त्वं नोस्मभ्यं देवेभिर्देवैः सह रद प्रयच्छ । किंतत् उच्यते हेइन्दो पात्रेषु क्षरन् सोम वावशानः कामयमानः सन् अश्विनं अश्ववन्तं रयिं धनं प्रयच्छेति । किंच रथिरायतां रथोयेषामस्तीति रथिराः । मेधारथाभ्यामितीरच् प्रत्ययः । तद्वदाचरतः तानिच्छतोवा पुरुषान् उशती कामयमाना पुरंधिः त्वदीया बहुविधाधीः वसूनां धनानां दावने दानाय अस्मद्भ्यक् अस्मदभिमुख्यागच्छतु यद्वा रथिरायतामिति धनानांविशेषणं बलवतां धनानामिति । अस्मद्भ्यक् विष्वग्देवयोश्चटेरद्भ्यञ्चतावप्रत्ययइति अद्भ्यादेशः अद्रिसध्र्योरन्तोदात्तत्वनिपातनात् उदात्तस्वरितयोर्यणइतितित्स्वरितः ॥ ४ ॥

9.93.5
नू नो᳚ र॒यिमुप᳚ मास्व नृ॒वन्तं᳚ पुना॒नो वा॒ताप्यं᳚ वि॒श्वश्च᳚न्द्रम् ।
प्र व᳚न्दि॒तुरि᳚न्दो ता॒र्यायु᳚ः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । र॒यिम् । उप᳚ । मा॒स्व॒ । नृ॒॑वन्त᳚म् । पु॒ना॒नः । वा॒ताप्य᳚म् । वि॒श्व॑च᳚न्द्रम् ।
प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति᳚ । ता॒रि॒ । आयुः᳚ । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पुनानः पूयमानस्त्वं नोस्मभ्यं नुक्षिप्रं नृवन्तं मनुष्यैर्युक्तम् । छान्दसंमतुपोवत्वम् । तादृशं रयिं धनं उपमास्व उपनिर्मिमीष्व उपकुर्वित्यर्थः । किंच विशचन्द्रं सर्वेषामाह्ला- दकं वाताप्यं उदकनामैतत् उदकंचकुरु । तथा हे इन्दो सोम वन्दितुस्तवस्तोतुः आयुर्जी- वनं प्रतारि त्वया वर्धितमस्तु सोयंसोमः धियावसुः बुध्याकर्मणावा प्राप्तधनः प्रातः काले वा सवने वा मक्षु शीघ्रं अस्मदीयं यज्ञं प्रति जगम्यादागच्छेत् गमेर्लिङि बहुलंछन्दसीति शपः श्लुः ॥ ५ ॥

अधियदिति पंचर्चनवमंसूक्तं आंगिरसस्यकण्वस्यार्षं तथाचानुक्रम्यते—अधियत्कण्वइति । पूर्ववच्छन्दोदेवते गतोविनियोगः ।