नवमं मण्डलम् - सूक्तम् 89

7 ऋचः

ऋषिः: उशनाः देवता: पवमानः सोमः छन्दः: त्रिष्टुप्

सूक्तम् 9.89 - सम्पूर्णम्

1 / 7
ऋक्: 9.89.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
9.89.1 समानपद
प्रो स्य वह्नि᳚ः प॒थ्या᳚भिरस्यान्दि॒वो न वृ॒ष्टिः पव᳚मानो अक्षाः ।
स॒हस्र᳚धारो असद॒न्न्य१॒᳚स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रो इति᳚ । स्यः । वह्निः᳚ । प॒थ्या᳚भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव᳚मानः । अ॒क्षा॒रिति᳚ ।
स॒हस्र᳚॑धारः । अ॒स॒द॒त् । नि । अ॒स्मे इति᳚ । मा॒तुः । उ॒प॑स्थे᳚ । वने᳚ । आ । च॒ । सोमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र उ इति निपातद्वयसमुदायएकोनिपातः । प्रो अस्यान् प्रस्यन्दते स्यः सवह्निः वो- ढा पथ्याभिः यज्ञमार्गैः दिवोनवृष्टिः दिवः सकाशात् वृष्टिरिव पवमानःसन् अक्षाः व्या प्नोषि । सोयंसोमः सहस्रधारोबहुधारःसन् अस्मे अस्मासु न्यसदत् निसीदति मातुः दशाप वित्रस्य उपस्थे द्युलोकस्यवा उपस्थे अथवा वने सोमः आनिषीदति ॥ १ ॥

9.89.2
राजा॒ सिन्धू᳚नामवसिष्ट॒ वास᳚ ऋ॒तस्य॒ नाव॒मारु᳚ह॒द्रजि᳚ष्ठाम् ।
अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ॥
▶ पदपाठः (Word-by-word)
राजा᳚ । सिन्धू᳚नाम् । अ॒व॒सि॒ष्ट॒ । वासः᳚ । ऋ॒तस्य᳚ । नाव᳚म् । आ । अ॒रु॒ह॒त् । रजि᳚ष्ठाम् ।
अ॒प्॑सु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒न॑जू᳚तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं राजां सोमः सिंधूनामुदकानां क्षीरादिस्यंदिनीनां गवांवासो वसनथानीयं क्षीरा- ख्यं श्रयणद्रव्यं अवसिष्ट आच्छादयति तथाकृत्वा रजिष्ठां ऋजुतरां ऋतस्य यज्ञस्य नाव- मारुहत् आरोहति । सद्रप्सः सोमरसः श्येनेनापहृतोरसोप्सुवसतीवरीषु ववृधे वर्धते । ईं तमिमं पितुः पालकात् पितृस्थानीयात् द्युलोकात् जां जातमपत्यं सोमं ईमयं पितापाल- को लोकोदुहे दोग्धिरसम् । तथा अध्वर्युरपि दुहेदोग्धि अथवोक्तलक्षणमेवं सोमं पिता पालकः स्वामी यजमानोदोग्धि फलम् । तथा दुहे अध्वर्युरपि रसंदुहे । यद्वा दुहेईमिति पुनरुक्तिरादरार्था ॥ २ ॥

9.89.3
सिं॒हं न᳚सन्त॒ मध्वो᳚ अ॒यासं॒ हरि᳚मरु॒षं दि॒वो अ॒स्य पति᳚म् ।
शूरो᳚ यु॒त्सु प्र᳚थ॒मः पृ᳚च्छते॒ गा अस्य॒ चक्ष᳚सा॒ परि᳚ पात्यु॒क्षा ॥
▶ पदपाठः (Word-by-word)
सिं॒हम् । न॒स॒न्त॒ । मध्वः᳚ । अ॒यास᳚म् । हरि᳚म् । अ॒रु॒षम् । दि॒वः । अ॒स्य । पति᳚म् ।
शूरः᳚ । यु॒त्॑सु । प्र॒थ॒मः । पृ॒च्छ॒ते॒ । गाः । अस्य᳚ । चक्ष᳚सा । परि᳚ । पा॒ति॒ । उ॒क्षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिंहं शत्रूणां हिंसकं सिंहसदृशं मध्वउदकस्य अयासं प्रेरकं हरिं हरितवर्णं अरुषं रूप वन्तं अस्यदिवोद्युलोकस्यपतिं पालकं सोमं नसंत व्याप्नुवन्ति । यजमानाः । युत्सु संग्रा- मेषु शूरः प्रथमोदेवानांमध्ये मुख्यः सोमोगाः पणिभिरपहृताः पृच्छतेमार्गज्ञान् पणीन् हत्वा गालब्धुं गोमार्गं पृच्छतीत्यर्थः । किंच अस्यचक्षसासामर्थ्येन उक्षा सेक्तादेवेन्द्रः प- रिपाति विश्वं ॥ ३ ॥

9.89.4
मधु᳚पृष्ठं घो॒रम॒यास॒मश्वं॒ रथे᳚ युञ्जन्त्युरुच॒क्र ऋ॒ष्वम् ।
स्वसा᳚र ईं जा॒मयो᳚ मर्जयन्ति॒ सना᳚भयो वा॒जिन᳚मूर्जयन्ति ॥
▶ पदपाठः (Word-by-word)
मधु᳚॑पृष्ठम् । घो॒रम् । अ॒यास᳚म् । अश्व᳚म् । रथे᳚ । यु॒ञ्ज॒न्ति॒ । उ॒रु॒॑च॒क्रे । ऋ॒ष्वम् ।
स्वसा᳚रः । ई॒म् । जा॒मयः᳚ । म॒र्ज॒य॒न्ति॒ । स॑ना᳚भयः । वा॒जिन᳚म् । ऊ॒र्ज॒य॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मधुपृष्ठं मधुरपृष्ठभागं घोरंभयानकं अयासं गन्तारं ऋष्वं दर्शनीयं उक्तलक्षणमश्व- मश्वस्थानीयं व्याप्तं सोमं उरुचक्रे प्रभूतचक्रे रथे यथाश्वं युंजंति रथिकास्तद्वत् प्रभूतच- णेरथे रंहणस्यसाधने यज्ञाख्ये रथेयुंजंति योजयंत्यध्वर्य्वादयः । किंच ईमेनंसोमं स्वसारः स्वयंसारिण्यः परस्परं स्वसृभूतावा जामयोबन्धुभूता अंगुलयः एकहस्तनिष्पन्नत्वात् स्व- सृत्वंजामित्वं च एवंभूतामार्जयन्ति शोधयन्ति । तदेवाह सनाभयः समानबंधना वाजिनं बलवन्तं सोममूर्जयन्ति बलिनंकुर्वन्ति ॥ ४ ॥

9.89.5
चत᳚स्र ईं घृत॒दुहः᳚ सचन्ते समा॒ने अ॒न्तर्ध॒रुणे॒ निष᳚त्ताः ।
ता ई᳚मर्षन्ति॒ नम᳚सा पुना॒नास्ता ईं᳚ वि॒श्वत॒ः परि᳚ षन्ति पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
चत᳚स्रः । ई॒म् । घृ॒त॒॑दुहः᳚ । स॒च॒न्ते॒ । स॒मा॒ने । अ॒न्तः । ध॒रुणे᳚ । नि॑स᳚त्ताः ।
ताः । ई॒म् । अ॒र्ष॒न्ति॒ । नम᳚सा । पु॒ना॒नाः । ताः । ई॒म् । वि॒श्वतः᳚ । परि᳚ । स॒न्ति॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

चतस्रो घृतदुहो घृतदोग्ध्र्यः गावईमेनं सोमं सचन्ते सेवन्ते । कीदृश्यस्ताः समाने एकस्मिन् धरुणे सर्वेषांधारके अन्तः अन्तरिक्षे निषत्ताः निषण्णाः ताघृतदुहः ईमेनमर्षन्ति प्राप्नुवन्ति नमसान्नेन पुनानाः पूयमानाः सत्यः ताः पूर्वीर्बह्वयः प्रभूतागावोविश्वतः सर्व- तः परिषंति परिभवन्ति ॥ ५ ॥

9.89.6 समानपद
वि॒ष्ट॒म्भो दि॒वो ध॒रुणः᳚ पृथि॒व्या विश्वा᳚ उ॒त क्षि॒तयो॒ हस्ते᳚ अस्य ।
अस᳚त्त॒ उत्सो᳚ गृण॒ते नि॒युत्वा॒न्मध्वो᳚ अं॒शुः प᳚वत इन्द्रि॒याय᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒ष्ट॒म्भः । दि॒वः । ध॒रुणः᳚ । पृ॒थि॒व्याः । विश्वाः᳚ । उ॒त । क्षि॒तयः᳚ । हस्ते᳚ । अ॒स्य॒ ।
अस᳚त् । ते॒ । उत्सः᳚ । गृ॒ण॒ते । नि॒युत्वा᳚न् । मध्वः᳚ । अं॒शुः । प॒व॒ते॒ । इ॒न्द्रि॒याय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं सोमोदिवोद्युलोकस्य विष्टंभभूतः यथा गृहस्यस्तंभः तद्वत् तथा पृथिव्याधरुणो- धारकः उतापिच विश्वाः सर्वाः क्षितयः प्रजाः अस्यसोमस्य हस्तेभवन्ति उत्सः उत्सरंत्य स्मात्कामाइत्युत्सः सोमः सगृणत्ते स्तुवते ते तुभ्यं नियुत्वानश्ववान् असत् भवतु । ससो- मोमध्वः मधु कर्मणिषष्ठी मधुररसः अंशुः सोमः । अंशुःशमष्टमात्रोभवती तियास्कः । य- इन्द्रियाय पवते पूयतेभिषूयते ॥ ६ ॥

9.89.7
व॒न्वन्नवा᳚तो अ॒भि दे॒ववी᳚ति॒मिन्द्रा᳚य सोम वृत्र॒हा प᳚वस्व ।
श॒ग्धि म॒हः पु᳚रुश्च॒न्द्रस्य᳚ रा॒यः सु॒वीर्य᳚स्य॒ पत᳚यः स्याम ॥
▶ पदपाठः (Word-by-word)
व॒न्वन् । अवा᳚तः । अ॒भि । दे॒व॑वी᳚तिम् । इन्द्रा᳚य । सो॒म॒ । वृ॒त्र॒॑हा । प॒व॒स्व॒ ।
श॒ग्धि । म॒हः । पु॒रु॒॑च॒न्द्रस्य᳚ । रा॒यः । सु॒॑वीर्य᳚स्य । पत᳚यः । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वन्वन् सन् देववीतिं देवानांपानार्थं हे सोम इन्द्राय इन्द्रार्थं वृत्रहा वृत्रस्यहन्ता अवातः त्वं अभिपवस्व क्षर । कथंभूतः त्वं शग्धि शक्तिमान् महोमहानसि त्वत्प्रसा- दाद्वयं पुरुश्चन्द्रस्य बह्वाह्वादकस्य सुवीर्यस्य शोभनावीरायस्मिन् तादृशस्य राये धनस्य पतयः स्याम ॥ ७ ॥

प्रहिन्वानइति षळृचंपंचमंसूक्तं मैत्रावरुणेर्वसिष्ठस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । तथाचानुक्रान्तम् । प्रहिन्वानः षड्वसिष्ठइति । गतोविनियोगः ।