श्रवणम्

9.89.1 समानपद
प्रो स्य वह्नि᳚ः प॒थ्या᳚भिरस्यान्दि॒वो न वृ॒ष्टिः पव᳚मानो अक्षाः ।
स॒हस्र᳚धारो असद॒न्न्य१॒᳚स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः᳚ ॥
▶ पदपाठः (Word-by-word)
प्रो इति᳚ । स्यः । वह्निः᳚ । प॒थ्या᳚भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव᳚मानः । अ॒क्षा॒रिति᳚ ।
स॒हस्र᳚॑धारः । अ॒स॒द॒त् । नि । अ॒स्मे इति᳚ । मा॒तुः । उ॒प॑स्थे᳚ । वने᳚ । आ । च॒ । सोमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र उ इति निपातद्वयसमुदायएकोनिपातः । प्रो अस्यान् प्रस्यन्दते स्यः सवह्निः वो- ढा पथ्याभिः यज्ञमार्गैः दिवोनवृष्टिः दिवः सकाशात् वृष्टिरिव पवमानःसन् अक्षाः व्या प्नोषि । सोयंसोमः सहस्रधारोबहुधारःसन् अस्मे अस्मासु न्यसदत् निसीदति मातुः दशाप वित्रस्य उपस्थे द्युलोकस्यवा उपस्थे अथवा वने सोमः आनिषीदति ॥ १ ॥