राजा॒ सिन्धू᳚नामवसिष्ट॒ वास᳚ ऋ॒तस्य॒ नाव॒मारु᳚ह॒द्रजि᳚ष्ठाम् ।
अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ॥
अ॒प्सु द्र॒प्सो वा᳚वृधे श्ये॒नजू᳚तो दु॒ह ईं᳚ पि॒ता दु॒ह ईं᳚ पि॒तुर्जाम् ॥
पदपाठः (Word-by-word)
राजा᳚ । सिन्धू᳚नाम् । अ॒व॒सि॒ष्ट॒ । वासः᳚ । ऋ॒तस्य᳚ । नाव᳚म् । आ । अ॒रु॒ह॒त् । रजि᳚ष्ठाम् ।
अ॒प्॑सु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒न॑जू᳚तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥
अ॒प्॑सु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒न॑जू᳚तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥
सायणभाष्यम् (Sayana Commentary)
अयं राजां सोमः सिंधूनामुदकानां क्षीरादिस्यंदिनीनां गवांवासो वसनथानीयं क्षीरा- ख्यं श्रयणद्रव्यं अवसिष्ट आच्छादयति तथाकृत्वा रजिष्ठां ऋजुतरां ऋतस्य यज्ञस्य नाव- मारुहत् आरोहति । सद्रप्सः सोमरसः श्येनेनापहृतोरसोप्सुवसतीवरीषु ववृधे वर्धते । ईं तमिमं पितुः पालकात् पितृस्थानीयात् द्युलोकात् जां जातमपत्यं सोमं ईमयं पितापाल- को लोकोदुहे दोग्धिरसम् । तथा अध्वर्युरपि दुहेदोग्धि अथवोक्तलक्षणमेवं सोमं पिता पालकः स्वामी यजमानोदोग्धि फलम् । तथा दुहे अध्वर्युरपि रसंदुहे । यद्वा दुहेईमिति पुनरुक्तिरादरार्था ॥ २ ॥