नवमं मण्डलम् - सूक्तम् 4

10 ऋचः

ऋषिः: हिरण्यस्तूपः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.4 - सम्पूर्णम्

1 / 10
ऋक्: 9.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
9.4.1
सना᳚ च सोम॒ जेषि᳚ च॒ पव᳚मान॒ महि॒ श्रवः᳚ ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
सन᳚ । च॒ । सो॒म॒ । जेषि᳚ । च॒ । पव᳚मान । महि᳚ । श्रवः᳚ ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महिश्रवः महदन्न पवमानसोम सनास्मद्यागे यजनीयान् देवान् भज जेषिच यागविध्वंसकारिणोराक्षसांश्च जय । अथ देवान् प्राप्य राक्षसांश्च जित्वा अनन्तरं नोस्मान् वस्यसः श्रेयस्कृधि कुरु श्रेयोस्मभ्यं देहीत्यर्थः ॥ १ ॥

9.4.2
सना॒ ज्योति॒ः सना॒ स्व१॒᳚र्विश्वा᳚ च सोम॒ सौभ᳚गा ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
सन᳚ । ज्योतिः᳚ । सन᳚ । स्वः᳚ । विश्वा᳚ । च॒ । सो॒म॒ । सौभ᳚गा ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं ज्योतिस्तेजः सन अस्मभ्यं प्रयच्छ । अपिच स्वः स्वर्गं सन अस्मभ्यं देहि । विश्वा विश्वानि सौभगा सौभाग्यानि च सन । सिद्धमन्यत् ॥ २ ॥

9.4.3
सना॒ दक्ष᳚मु॒त क्रतु॒मप᳚ सोम॒ मृधो᳚ जहि ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
सन᳚ । दक्ष᳚म् । उ॒त । क्रतु᳚म् । अप᳚ । सो॒म॒ । मृधः᳚ । ज॒हि॒ ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं दक्षं बलं सनास्मभ्यं देहि । उतापिच क्रतुं प्रज्ञानं सन । मृधोहिंसकान् शत्रून् अपजहि । मारय । सिद्धमन्यत् ॥ ३ ॥

9.4.4
पवी᳚तारः पुनी॒तन॒ सोम॒मिन्द्रा᳚य॒ पात᳚वे ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
पवि᳚तारः । पु॒नी॒तन᳚ । सोम᳚म् । इन्द्रा᳚य । पात᳚वे ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवीतारः सोमाभिषकर्तारोयूयं इन्द्राय पातवे पातुं सोमं पुनीतन अभिषूणुत । सिद्धमन्यत् ॥ ४ ॥

9.4.5
त्वं सूर्ये᳚ न॒ आ भ᳚ज॒ तव॒ क्रत्वा॒ तवो॒तिभि᳚ः ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
त्वम् । सूर्ये᳚ । नः॒ । आ । भ॒ज॒ । तव᳚ । क्रत्वा᳚ । तव᳚ । ऊ॒ति॑भिः᳚ ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं तव क्रत्वा तवोतिभिः त्वत्कर्तृकेण कर्मणा त्वत्कर्तृकाभीरक्षाभिश्च नोस्मान् सूर्ये आभज प्रापय । सिद्धमान्यत् ॥ ५ ॥

9.4.6
तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प᳚श्येम॒ सूर्य᳚म् ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
तव᳚ । क्रत्वा᳚ । तव᳚ । ऊ॒ति॑भिः᳚ । ज्योक् । प॒श्ये॒म॒ । सूर्य᳚म् ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम तव क्रत्वा प्रज्ञानेन तवोतिभीरक्षाभिश्च ज्योक् चिरं पश्येम सूर्यं पश्याम द्रक्ष्यामः । सिद्धमन्यत् ॥ ६ ॥

9.4.7
अ॒भ्य᳚र्ष स्वायुध॒ सोम᳚ द्वि॒बर्ह᳚सं र॒यिम् ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्ष॒ । सु॒॑आ॒यु॒ध॒ । सोम᳚ । द्वि॒॑बर्ह᳚सम् । र॒यिम् ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वायुध शोभनायुध सोम त्वं द्विबर्हसं द्वयोर्द्यावापृथिव्योः स्थानयोः परिबुढं रयिं धनं अभ्यर्ष अस्मानभिगमय । सिद्धमन्यत् ॥ ७ ॥

9.4.8
अ॒भ्य१॒᳚र्षान᳚पच्युतो र॒यिं स॒मत्सु᳚ सास॒हिः ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
अ॒भि । अ॒र्ष॒ । अन᳚प॑च्युतः । र॒यिम् । स॒मत्॑सु᳚ । स॒स॒हिः ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम समत्सु संग्रामेषु अनपच्युतः शत्रूभिरनाहतः सासहिः शत्रुणामभिभविता त्वं रयिं धनं अभ्यर्ष अस्मानभिगमय । सिद्धमन्यत् ॥ ८ ॥

9.4.9
त्वां य॒ज्ञैर᳚वीवृध॒न्पव᳚मान॒ विध᳚र्मणि ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
त्वाम् । य॒ज्ञैः । अ॒वी॒वृ॒ध॒न् । पव᳚मान । वि॑ध᳚र्मणि ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान सोम यजमानानां विधारणाय प्रवृत्तं त्वां यज्ञैः विधर्मणि आत्मनोविधारणार्थं अवीवृधन् यजमानावर्धयन्ति । सिद्धमन्यत् ॥ ९ ॥

9.4.10
र॒यिं न᳚श्चि॒त्रम॒श्विन॒मिन्दो᳚ वि॒श्वायु॒मा भ᳚र ।
अथा᳚ नो॒ वस्य᳚सस्कृधि ॥
▶ पदपाठः (Word-by-word)
र॒यिम् । नः॒ । चि॒त्रम् । अ॒श्विन᳚म् । इन्दो॒ इति᳚ । वि॒श्व॑आ᳚युम् । आ । भ॒र॒ ।
अथ᳚ । नः॒ । वस्य᳚सः । कृ॒धि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो यागेषु क्लिद्यमान सोम त्वं चित्रं नानाविधं कश्विनं अश्ववन्तं च विश्वायुं सर्वगामिनं रयिं नोस्मभ्यं आभर आहर । सिद्धमन्यत् ॥ १० ॥

समिद्धइत्येकादशर्चं पंचमं सूक्तं काश्यपासितस्य देवलस्यवार्षं अष्टम्याद्याश्चस्रोनुष्टुभः शिष्टाः सप्तगायत्र्यः नराशंसवर्जिताः समिद्धाअदयः क्रमेण प्रत्यृचंदेवताः । तथाचानुक्रान्तं-समिद्धएकादश काश्यपोसितोदेवलोवा विंशतिः सूक्तान्याद्यमाप्रियश्चतुरनुष्टुबन्तमिति । काश्यपस्य पावमानमिदमाप्रीसूक्तम् । सूत्रितंच-समिद्धोअद्येति सर्वेषांयथाऋषिवेति ।