नवमं मण्डलम् - सूक्तम् 30

6 ऋचः

ऋषिः: बिंदुः देवता: पवमानः सोमः छन्दः: गायत्री

सूक्तम् 9.30 - सम्पूर्णम्

1 / 6
ऋक्: 9.30.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
9.30.1
प्र धारा᳚ अस्य शु॒ष्मिणो॒ वृथा᳚ प॒वित्रे᳚ अक्षरन् ।
पु॒ना॒नो वाच᳚मिष्यति ॥
▶ पदपाठः (Word-by-word)
प्र । धाराः᳚ । अ॒स्य॒ । शु॒ष्मिणः᳚ । वृथा᳚ । प॒वित्रे᳚ । अ॒क्ष॒र॒न् ।
पु॒ना॒नः । वाच᳚म् । इ॒ष्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुष्मिणोबलवतोस्य सोमस्य धाराः पवित्रे दशापवित्रे वृथा अप्रयत्नेन प्राक्षरन् स्नवन्ति । तदानीं पुनानः पूयमानः सोमो वाचं स्तुतिं स्वीयं ध्वनिं वा इष्यति प्रेरयति ॥ १ ॥

9.30.2
इन्दु᳚र्हिया॒नः सो॒तृभि᳚र्मृ॒ज्यमा᳚न॒ः कनि᳚क्रदत् ।
इय᳚र्ति व॒ग्नुमि᳚न्द्रि॒यम् ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । हि॒या॒नः । सो॒तृ॑भिः᳚ । मृ॒ज्यमा᳚नः । कनि᳚क्रदत् ।
इय᳚र्ति । व॒ग्नुम् । इ॒न्द्रि॒यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्दुर्दीप्तः सोमोहियानः प्रेर्यमाणोत्र्याप्रियमाणः कैः सोतृभिरृत्विग्भिः पश्चाद्दशापवित्रे मृज्यमानः शोध्यमानः कनिक्रदत् शब्दं कुर्वन् इन्द्रियमिन्द्रस्य संबन्धिनं इन्द्रियमपि करं वग्नुं शब्दमियर्ति प्रेरयति ग्रहणसमये ॥ २ ॥

9.30.3
आ न॒ः शुष्मं᳚ नृ॒षाह्यं᳚ वी॒रव᳚न्तं पुरु॒स्पृह᳚म् ।
पव᳚स्व सोम॒ धार᳚या ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । शुष्म᳚म् । नृ॒॑सह्य᳚म् । वी॒र॑व᳚न्तम् । पु॒रु॒॑स्पृह᳚म् ।
पव᳚स्व । सो॒म॒ । धार᳚या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं धारया आपवस्व । किं शुष्मं बलम् । कीद्रुशं नृषासह्यं नृणामस्मद्विरोधिनामभिभाषुकं वीरवन्तं पुत्रोपेतं पुरुस्पृहं बहुभिः स्पृहणीयं नोस्माकं शुष्ममापवस्व एतस्यलाभाय पवस्वेत्यर्थः । रसखावेसति होमद्वारा तत्सिद्धे शुष्मं पवस्वेत्युपचर्यते ॥ ३ ॥

9.30.4
प्र सोमो॒ अति॒ धार᳚या॒ पव᳚मानो असिष्यदत् ।
अ॒भि द्रोणा᳚न्या॒सद᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । सोमः᳚ । अति᳚ । धार᳚या । पव᳚मानः । अ॒सि॒स्य॒द॒त् ।
अ॒भि । द्रोणा᳚नि । आ॒॑सद᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं पवमानः सोमोधारया अति अतिक्रम्य दशापवित्रं प्रासिष्यदत् प्रस्यन्दते । किमर्थं द्रोणानि द्रोणकलशादीनि अभ्यासदं आसादनाय ॥ ४ ॥

9.30.5
अ॒प्सु त्वा॒ मधु᳚मत्तमं॒ हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑सु । त्वा॒ । मधु᳚मत्॑तमम् । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
इन्दो॒ इति᳚ । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम अप्सु वसतीवरीषूदकेषु मधुमत्तमं अतिशयेन मधुमन्तं हरिं हरितवर्णं त्वा त्वां अद्रिभिरभिषवग्रावभिर्हिन्वंति प्रेरयन्ति । किमर्थं इन्द्रायेन्द्रस्य पीतये पानाय ॥ ५ ॥

9.30.6
सु॒नोता॒ मधु᳚मत्तमं॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ ।
चारुं॒ शर्धा᳚य मत्स॒रम् ॥
▶ पदपाठः (Word-by-word)
सु॒नोत᳚ । मधु᳚मत्॑तमम् । सोम᳚म् । इन्द्रा᳚य । व॒ज्रिणे᳚ ।
चारु᳚म् । शर्धा᳚य । म॒त्स॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजोयूयं मधुमत्तमं मधुररसोपेतं सोमं इन्द्राय वज्रिणे वज्रयुक्ताय सुनोत सुमुत । पुनःकीदृशं चारुं चरणीयं मत्सरं मदकरं रार्धायास्माकं बलाय इन्द्रस्य पानायच सोमं सुनुतेतिषूते यजमानः स्वीयान् ॥ ६ ॥ प्रसोमासइति षळृचं सप्तमं सूक्तं राहूगणस्य गोतमस्यार्षं सौम्यं गायत्रम् । प्रसोमासोगोतमइत्यनुक्रान्तम् । गतोविनियोगः ।