श्रवणम्

9.30.1
प्र धारा᳚ अस्य शु॒ष्मिणो॒ वृथा᳚ प॒वित्रे᳚ अक्षरन् ।
पु॒ना॒नो वाच᳚मिष्यति ॥
▶ पदपाठः (Word-by-word)
प्र । धाराः᳚ । अ॒स्य॒ । शु॒ष्मिणः᳚ । वृथा᳚ । प॒वित्रे᳚ । अ॒क्ष॒र॒न् ।
पु॒ना॒नः । वाच᳚म् । इ॒ष्य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुष्मिणोबलवतोस्य सोमस्य धाराः पवित्रे दशापवित्रे वृथा अप्रयत्नेन प्राक्षरन् स्नवन्ति । तदानीं पुनानः पूयमानः सोमो वाचं स्तुतिं स्वीयं ध्वनिं वा इष्यति प्रेरयति ॥ १ ॥