श्रवणम्

9.30.5
अ॒प्सु त्वा॒ मधु᳚मत्तमं॒ हरिं᳚ हिन्व॒न्त्यद्रि᳚भिः ।
इन्द॒विन्द्रा᳚य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒प्॑सु । त्वा॒ । मधु᳚मत्॑तमम् । हरि᳚म् । हि॒न्व॒न्ति॒ । अद्रि᳚॑भिः ।
इन्दो॒ इति᳚ । इन्द्रा᳚य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम अप्सु वसतीवरीषूदकेषु मधुमत्तमं अतिशयेन मधुमन्तं हरिं हरितवर्णं त्वा त्वां अद्रिभिरभिषवग्रावभिर्हिन्वंति प्रेरयन्ति । किमर्थं इन्द्रायेन्द्रस्य पीतये पानाय ॥ ५ ॥