नवमं मण्डलम् - सूक्तम् 113

11 ऋचः

ऋषिः: कश्यपः देवता: पवमानः सोमः छन्दः: पंक्तिः

सूक्तम् 9.113 - सम्पूर्णम्

1 / 11
ऋक्: 9.113.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
9.113.1
श॒र्य॒णाव᳚ति॒ सोम॒मिन्द्र᳚ः पिबतु वृत्र॒हा ।
बलं॒ दधा᳚न आ॒त्मनि᳚ करि॒ष्यन्वी॒र्यं᳚ म॒हदिन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
श॒र्य॒णा॑व᳚ति । सोम᳚म् । इन्द्रः᳚ । पि॒ब॒तु॒ । वृ॒त्र॒॑हा ।
बल᳚म् । दधा᳚नः । आ॒त्मनि᳚ । क॒रि॒ष्यन् । वी॒र्य᳚म् । म॒हत् । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शर्यणावति शर्यणावन्नामकुरुक्षेत्रस्य जघनार्धे सरः तत्र स्थितं सोमं वृत्रहा इन्द्रः पि- बतु । कीदृशः आत्मनि बलंदधानः बलं निदधानः अतएव महद्वीर्यं करिष्यन् शत्रून् प्रति तस्मादिन्द्रायेन्दो परिस्रव ॥ १ ॥

9.113.2
आ प᳚वस्व दिशां पत आर्जी॒कात्सो᳚म मीढ्वः ।
ऋ॒त॒वा॒केन᳚ स॒त्येन᳚ श्र॒द्धया॒ तप᳚सा सु॒त इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
आ । प॒व॒स्व॒ । दि॒शा॒म् । प॒ते॒ । आ॒र्जी॒कात् । सोम᳚ । मी॒ढ्वः॒ ।
ऋ॒त॒॑वा॒केन᳚ । स॒त्येन᳚ । श्र॒द्धया᳚ । तप᳚सा । सु॒तः । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दिशां पते प्राच्यादीनां दिशां प्रकाशकत्वेन स्वामिन् हे मीढ्वः कामानां सेक्तः हेसोम आर्जीकात् ऋजीकानामदूरभवः आर्जीकोजनपदः तस्मादापवस्व अस्मद्यज्ञं प्रत्याग- च्छ । यद्वा आर्जीकात् ऋजोरकुटिलाप् पवित्रात् क्षर । कीदृशः ऋत्वाकेन ऋतस्य वचने- न सत्येन सत्यर्तयोरल्पोभेदोद्रष्टव्यः श्रद्धया तपसा युक्तैः दीक्षितैः सुतोभिषुतस्त्वं पवस्व ॥ २ ॥

9.113.3
प॒र्जन्य᳚वृद्धं महि॒षं तं सूर्य᳚स्य दुहि॒ताभ᳚रत् ।
तं ग᳚न्ध॒र्वाः प्रत्य᳚गृभ्ण॒न्तं सोमे॒ रस॒माद᳚धु॒रिन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
प॒र्जन्य᳚॑वृद्धम् । म॒हि॒षम् । तम् । सूर्य᳚स्य । दु॒हि॒ता । आ । अ॒भ॒र॒त् ।
तम् । ग॒न्ध॒र्वाः । प्रति᳚ । अ॒गृ॒भ्ण॒न् । तम् । सोमे᳚ । रस᳚म् । आ । अ॒द॒धुः॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यस्य दुहिताश्रद्धावैसूर्यस्य दुहितेति वाजसनेयकम् । सा वर्जन्यवृद्धं पर्जन्यवत्समर्थं यद्वा पर्जन्येन तत्कार्यत्वेनोदकेन प्रवृद्धं महिषं महान्तं पूज्यंवा तं सोममाभरत् आहरत् द्युलोकादाहृतवती तमाह्रियमाणं सोमं गंधर्वाः विश्वावसुप्रभृतयः प्रत्यगृभ्णन् प्रत्यगृह्णन् प्रतिगृहीतवन्तः हृग्रहोर्भः । ततः गंधर्वाः प्रतिगृहीतं रसं सोमे प्रत्यक्षमादधुः । दधातेर्ल- ङि । तस्मात् परिस्रव ॥ ३ ॥

9.113.4
ऋ॒तं वद᳚न्नृतद्युम्न स॒त्यं वद᳚न्त्सत्यकर्मन् ।
श्र॒द्धां वद᳚न्त्सोम राजन्धा॒त्रा सो᳚म॒ परि᳚ष्कृत॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । वद᳚न् । ऋ॒त॒॑द्यु॒म्न॒ । स॒त्यम् । वद᳚न् । स॒त्य॒॑क॒र्म॒न् ।
श्र॒द्धाम् । वद᳚न् । सो॒म॒ । रा॒ज॒न् । धा॒त्रा । सो॒म॒ । परि᳚॑कृतः । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतद्युम्न ऋतेन द्योतमान सत्ययशस्कवा सत्यकर्मन् हे सोम अभिषूयमाण राजन् सर्वेषां यज्ञनिष्पादकत्वेन स्वामिन् हे सोम ऋतं यज्ञं वदन् सत्यं वदन् उज्जारयन् श्रद्धां यजमानानां आत्मनोपेक्षितां वदन् धात्रा कर्मणा धारकेण देवानां पोषकेणवा यजमानेन परिष्कृतोलंकृतस्त्वं इन्द्राय परिस्रव । संपर्युपेभ्यइति भूषणार्थे करोतेः सुट् ॥ ४ ॥

9.113.5
स॒त्यमु᳚ग्रस्य बृह॒तः सं स्र᳚वन्ति संस्र॒वाः ।
सं य᳚न्ति र॒सिनो॒ रसा᳚ः पुना॒नो ब्रह्म᳚णा हर॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
स॒त्यम्॑उ᳚ग्रस्य । बृ॒ह॒तः । सम् । स्र॒व॒न्ति॒ । स॒म्॑स्र॒वाः ।
सम् । य॒न्ति॒ । र॒सिनः᳚ । रसाः᳚ । पु॒ना॒नः । ब्रह्म᳚णा । ह॒रे॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्यमुग्रस्य संग्रामे सत्येन शत्रूणामुद्गारयितुः यद्वा उद्गूर्णसत्यस्य यद्वा यथार्थभूतमु- द्गूर्णं बलं यस्य तस्य पृषोदरादित्वात् रूपसिद्धिः बृहतोमहतः सोमस्य तव संस्रवाः सम्यक् स्रवणशीलाः धाराः संस्रवन्ति सम्यक् गच्छन्ति । किंच रसिनोरसवतस्तव स्वभू- तारसाः संयन्ति संगच्छन्ते तस्मात् हे हरे हरितवर्ण सोम ब्रह्मणा ब्राह्मणेन मंत्रेणवा पुनानः पूयमानः सत्वमिन्द्रार्थं परिस्रव ॥ ५ ॥

9.113.6
यत्र᳚ ब्र॒ह्मा प᳚वमान छन्द॒स्यां॒३॒᳚ वाचं॒ वद᳚न् ।
ग्राव्णा॒ सोमे᳚ मही॒यते॒ सोमे᳚नान॒न्दं ज॒नय॒न्निन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । ब्र॒ह्मा । प॒व॒मा॒न॒ । छ॒न्द॒स्या᳚म् । वाच᳚म् । वद᳚न् ।
ग्राव्णा᳚ । सोमे᳚ । म॒ही॒यते᳚ । सोमे᳚न । आ॒॑न॒न्दम् । ज॒नय᳚न् । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान पूयमान सोम त्वदर्थं छन्दस्यां सप्तच्छन्दोभिः कृतां तेषु भवां वाचं स्तु- तिं वदन् उच्चारयन् सोमे सोमाभिषवार्थं ग्राव्णाभिषवं कुर्वतायुक्तः तेनाभिषुतेन सोमेन देवानामानन्दं सन्तोषं जनयन्नुत्पादयन् ब्रह्मा ब्राह्मणः यत्र यस्मिन्देशे महीयते देवैः पूज्यते तत्र हे सोम त्वं परिस्रव ॥ ६ ॥

9.113.7
यत्र॒ ज्योति॒रज᳚स्रं॒ यस्मि{4}᳚ल्लो॒के स्व᳚र्हि॒तम् ।
तस्मि॒न्मां धे᳚हि पवमाना॒मृते᳚ लो॒के अक्षि᳚त॒ इन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । ज्योतिः᳚ । अज᳚स्रम् । यस्मि᳚न् । लो॒के । स्वः᳚ । हि॒तम् ।
तस्मि᳚न् । माम् । धे॒हि॒ । प॒व॒मा॒न॒ । अ॒मृते᳚ । लो॒के । अक्षि᳚ते । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे पवमान यत्र यस्मिन्लोके ज्योतिः सर्वं तेजः अजस्रं सर्वदा अविनश्वरं वर्तते । यस्मिंश्च लोके स्वरादित्याख्यं ज्योतिर्हितं निहितमस्ति तस्मिन् अमृते मरणधर्मरहिते अतएव अक्षिते अक्षीणलोके मां सोमाभिषवं कुर्वन्तं धेहि तस्मान्मामुत्तमलोकं प्रापयितुं त्वमिन्द्राय परिस्रव ॥ ७ ॥

9.113.8
यत्र॒ राजा᳚ वैवस्व॒तो यत्रा᳚व॒रोध᳚नं दि॒वः ।
यत्रा॒मूर्य॒ह्वती॒राप॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । राजा᳚ । वै॒व॒स्व॒तः । यत्र᳚ । अ॒व॒॑रोध᳚नम् । दि॒वः ।
यत्र᳚ । अ॒मूः । य॒ह्वतीः᳚ । आपः᳚ । तत्र᳚ । माम् । अ॒मृत᳚म् । कृ॒धि॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्लोके वैवस्वतः विवस्वत्पुत्रोराजा भवति यत्रच लोके दिवआदित्यस्यावरो धनं भूतानां प्रवेशनम् । किंच यत्र लोके यह्वतीर्महत्वः अमूरिमागंगाद्याः आपस्तिष्ठन्ति । तत्र तादृशे लोके मां अमृतं मरणधर्मरहितं कृधि कुरु मम देवत्वं प्रापयेत्यर्थः । ततः कारणात् परिस्रव ॥ ८ ॥

9.113.9
यत्रा᳚नुका॒मं चर᳚णं त्रिना॒के त्रि᳚दि॒वे दि॒वः ।
लो॒का यत्र॒ ज्योति᳚ष्मन्त॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । अ॒नु॒॑का॒मम् । चर᳚णम् । त्रि॒॑ना॒के । त्रि॒॑दि॒वे । दि॒वः ।
लो॒काः । यत्र᳚ । ज्योति᳚ष्मन्तः । तत्र᳚ । माम् । अ॒मृत᳚म् । कृ॒धि॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र त्रिदिवे तृतीयस्यां दिवि द्युलोके त्रिनाके तत्र अधरमध्यमोत्तमभावे न त्रीणि- स्थानानि सन्ति । तत्र तृतीयेनाके उत्तमे स्थाने दिवआदित्यस्यानुकामं कामानुगुणं चर- णमस्ति । किंच यत्र यस्मिन्लोके लोकाः ज्योतिष्मन्तः ज्योतिर्युक्तास्तिष्ठन्ति तत्र तादृशे लोके माममृतं कृधि यथाममोत्तमलोकोभवति तथा त्वमिन्द्राय परिस्रव ॥ ९ ॥

9.113.10
यत्र॒ कामा᳚ निका॒माश्च॒ यत्र᳚ ब्र॒ध्नस्य᳚ वि॒ष्टप᳚म् ।
स्व॒धा च॒ यत्र॒ तृप्ति᳚श्च॒ तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । कामाः᳚ । नि॒॑का॒माः । च॒ । यत्र᳚ । ब्र॒ध्नस्य᳚ । वि॒ष्टप᳚म् ।
स्व॒धा । च॒ । यत्र᳚ । तृप्तिः᳚ । च॒ । तत्र᳚ । माम् । अ॒मृत᳚म् । कृ॒धि॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन्लोके कामाः काम्यमानाः देवाः निकामानितरामवश्यं प्रार्थ्यमानाइन्द्रादव- श्च विद्यन्ते यद्वा सूर्येण विना कर्माणि नघटन्ते इति सर्वेषां कर्मणां कूलभूतस्यादित्यस्य विष्टपं सहस्थानं विद्यते यत्र लोके स्वधान्नं स्वधाकारेण दत्तमन्नं तृप्तिस्तर्पणं यत्रविद्यते तत्र लोके माममृतं कृधि ॥ १० ॥

9.113.11
यत्रा᳚न॒न्दाश्च॒ मोदा᳚श्च॒ मुदः᳚ प्र॒मुद॒ आस᳚ते ।
काम᳚स्य॒ यत्रा॒प्ताः कामा॒स्तत्र॒ माम॒मृतं᳚ कृ॒धीन्द्रा᳚येन्दो॒ परि᳚ स्रव ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । आ॒न॒न्दाः । च॒ । मोदाः᳚ । च॒ । मुदः᳚ । प्र॒॑मुदः᳚ । आस᳚ते ।
काम᳚स्य । यत्र᳚ । आ॒प्ताः । कामाः᳚ । तत्र᳚ । माम् । अ॒मृत᳚म् । कृ॒धि॒ । इन्द्रा᳚य । इ॒न्दो॒ इति᳚ । परि᳚ । स्र॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत्र यस्मिन् लोके आनन्दादयआसते तेषामल्पोभेदोद्रष्टव्यः यत्र लोके कामस्य काम्य- मानस्य देवस्य सर्वेकामाआप्ताः प्राप्ताभवन्ति तत्र माममृतं कृधि एतत्तु त्वयाविना नघट इति हे सोम त्वं परिस्रव ॥ ११ ॥

यइन्दोइति चतुरृचमेकादशं सूक्तं ऋष्याद्याः पूर्ववत् । तथाचानुक्रम्यते—यइन्दोश्चतुष्क मिति । गतः सूक्तविनियोगः ।