अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ॥
पदपाठः (Word-by-word)
अच्छ᳚ । वाज᳚म् । स॒ह॒स्रिण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम ते तव असश्चतः संगरहिताधाराः सहस्रिणमपरिमितसंख्याकं वाजमन्नमच्छास्म- दर्थं प्रयन्ति प्रगच्छन्ति । तत्रदृष्टान्तः—दिवोन वृष्टयः यथा द्युलोकात् वर्षधारा निःसंगाः व्रजानामपरिमितमन्नं प्रयन्ति तद्वदित्यर्थः ॥ १ ॥