श्रवणम्

9.57.4
स नो॒ विश्वा᳚ दि॒वो वसू॒तो पृ᳚थि॒व्या अधि᳚ ।
पु॒ना॒न इ᳚न्द॒वा भ᳚र ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । विश्वा᳚ । दि॒वः । वसु᳚ । उ॒तो इति᳚ । पृ॒थि॒व्याः । अधि᳚ ।
पु॒ना॒नः । इ॒न्दो॒ इति᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्दो सोम पुनानः पवमानस्त्वं दिवोधि दिविस्थितानि उतो अपिच पृथिव्याअधि पृथिव्यां स्थितानि । अधीति सप्तम्यर्थानुवादः । विश्वा विश्वानि वसुवसूनि नोस्मभ्यमाभरा- हर ॥ ४ ॥

ततत्सइतिचतुरृचं चतुस्त्रिंशंसूक्तं ऋष्याद्याःपूर्ववत् । तरत्सइत्यनुक्रान्तम् । उक्तोविनियोगः ।