श्रवणम्

9.57.2
अ॒भि प्रि॒याणि॒ काव्या॒ विश्वा॒ चक्षा᳚णो अर्षति ।
हरि᳚स्तुञ्जा॒न आयु᳚धा ॥
▶ पदपाठः (Word-by-word)
अ॒भि । प्रि॒याणि᳚ । काव्या᳚ । विश्वा᳚ । चक्षा᳚णः । अ॒र्ष॒ति॒ ।
हरिः᳚ । तु॒ञ्जा॒नः । आयु᳚धा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हरिर्हरितवर्णः सोमो विश्वा विश्वानि प्रियाणि देवानां प्रीतिकराणि काव्या काव्यानि कर्माणि चक्षाणः पश्यन् आयुधा स्वकीयान्यायुधानि तुंजानो राक्षसान्प्रति प्रेरयंश्चाभ्यर्षति यागं प्रति गच्छति ॥ २ ॥