श्रवणम्

9.57.1
प्र ते॒ धारा᳚ अस॒श्चतो᳚ दि॒वो न य᳚न्ति वृ॒ष्टयः᳚ ।
अच्छा॒ वाजं᳚ सह॒स्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
प्र । ते॒ । धाराः᳚ । अ॒स॒श्चतः᳚ । दि॒वः । न । य॒न्ति॒ । वृ॒ष्टयः᳚ ।
अच्छ᳚ । वाज᳚म् । स॒ह॒स्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव असश्चतः संगरहिताधाराः सहस्रिणमपरिमितसंख्याकं वाजमन्नमच्छास्म- दर्थं प्रयन्ति प्रगच्छन्ति । तत्रदृष्टान्तः—दिवोन वृष्टयः यथा द्युलोकात् वर्षधारा निःसंगाः व्रजानामपरिमितमन्नं प्रयन्ति तद्वदित्यर्थः ॥ १ ॥