श्रवणम्

9.57.3
स म᳚र्मृजा॒न आ॒युभि॒रिभो॒ राजे᳚व सुव्र॒तः ।
श्ये॒नो न वंसु᳚ षीदति ॥
▶ पदपाठः (Word-by-word)
सः । म॒र्मृ॒जा॒नः । आ॒यु॑भिः᳚ । इभः᳚ । राजा᳚॑इव । सु॒॑व्र॒तः ।
श्ये॒नः । न । वंसु᳚ । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुव्रतः सुकर्मा ससोमः आयुभिर्मनुष्यैः ऋत्विग्भिर्मर्मृजानः शोध्यमानः इभोगतभयो रा- जेव यथा राजा । श्येनोन यथा च श्येनः तथा वंसूदकेषु वसतीवरीषु सीदति ॥ ३ ॥