वा॒योरिन्द्र᳚स्य निष्कृ॒तम् ॥
पदपाठः (Word-by-word)
वा॒योः । इन्द्र᳚स्य । निः॒॑कृ॒तम् ॥
सायणभाष्यम् (Sayana Commentary)
यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
षष्ठस्य सप्तमोध्यायः संग्रहात्संप्रदर्शितः । अथाष्टमःसुमतिना संगमेनप्रदर्श्यते ॥ २ ॥
तत्र सोमःपुनानइति नवर्चं त्रयोदशं सूक्तं असितोदेवलोवाऋषिः सोमोदेवता । पवमानगुणः सोमोविज्ञेयः काश्यपावृषी । इतिविद्यादनुक्तेपि लाघवायादृह्ळच्युतात् ॥ १ ॥ सोमइत्यानुक्रान्तम् । गतोविनियोगः ।
अयं पुनानः पावकः सोमः अर्षति गच्छति । कीदृशोयं पवमानः सहस्रधारः अपरिमितधारः । अत्यविः अत्राविशब्देन तल्लोमान्युच्यन्ते अविलो- मभिर्निष्पादितं दशापवित्रमित्यर्थः । तदतिक्रम्य गच्छतीति अत्यविः । किमर्थं वायोरिन्द्रस्य च पानायेतिशेषः । किं प्रति निष्कृतं निरित्येष समित्येतस्मिन्नर्थे । संस्कृतं पात्रं प्रति ॥ १ ॥