श्रवणम्

9.13.8
जुष्ट॒ इन्द्रा᳚य मत्स॒रः पव᳚मान॒ कनि᳚क्रदत् ।
विश्वा॒ अप॒ द्विषो᳚ जहि ॥
▶ पदपाठः (Word-by-word)
जुष्टः᳚ । इन्द्रा᳚य । म॒त्स॒रः । पव᳚मान । कनि᳚क्रदत् ।
विश्वाः᳚ । अप᳚ । द्विषः᳚ । ज॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्राय जुष्टः पर्याप्तोमत्सरः सोमोभवतीतिशेषः । मत्सरः सोमोमन्दतेस्तृप्तिकर्मणइति निरुक्तम् । हे पवमान त्वं कनिक्रदत् शब्दयन् विश्वाद्विषः सर्वानस्माकं द्वेष्टृनपजहि ॥ ८ ॥