श्रवणम्

9.13.3
पव᳚न्ते॒ वाज᳚सातये॒ सोमा᳚ः स॒हस्र᳚पाजसः ।
गृ॒णा॒ना दे॒ववी᳚तये ॥
▶ पदपाठः (Word-by-word)
पव᳚न्ते । वाज᳚॑सातये । सोमाः᳚ । स॒हस्र᳚॑पाजसः ।
गृ॒णा॒नाः । दे॒व॑वी᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवन्ते क्षरन्ते सोमाः । किमर्थं वाजसातये अन्नस्यलाभाय । कीदृशाः सहस्रमाजसो बहुलाः पातॄणां बलप्रदाइत्यर्थः । गृणानाः कर्मणिकर्तृप्रत्ययः स्तूयमानाः । पुनः किमर्थं देववीतये देवानां वीतिर्गतिः प्राप्तिर्भक्षणंवा यस्मिन् सदेववीतिर्यज्ञः तदर्थं यज्ञसिद्धिः साक्षात् प्रयोजनं तद्वारा वाजलाभइति ॥ ३ ॥