अत्या᳚ हिया॒ना न हे॒तृभि॒रसृ᳚ग्रं॒ वाज᳚सातये ।
वि वार॒मव्य᳚मा॒शवः᳚ ॥
वि वार॒मव्य᳚मा॒शवः᳚ ॥
पदपाठः (Word-by-word)
अत्याः᳚ । हि॒या॒नाः । न । हे॒तृ॑भिः᳚ । असृ᳚ग्रम् । वाज᳚॑सातये ।
वि । वार᳚म् । अव्य᳚म् । आ॒शवः᳚ ॥
वि । वार᳚म् । अव्य᳚म् । आ॒शवः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वाजसातये संग्रामाय हियानाः प्रेर्यमाणाः अत्यान अश्वाइव ते यथा प्रेरकैः प्रेर्यमाणाः संग्रामाय शीघ्रं धावन्ति तद्वत् हेतृभिः प्रेरकैः प्रेर्यमाणाः आशवः शीघ्रगामिनः सोमाः वाजसातये अन्नलाभाय अव्यं वारं दशापवित्रं व्यसृग्रं व्यतिसृज्यन्ते ॥ ६ ॥