श्रवणम्

9.13.7
वा॒श्रा अ᳚र्ष॒न्तीन्द᳚वो॒॑भि व॒त्सं न धे॒नवः᳚ ।
द॒ध॒न्वि॒रे गभ᳚स्त्योः ॥
▶ पदपाठः (Word-by-word)
वा॒श्राः । अ॒र्ष॒न्ति॒ । इन्द᳚वः । अ॒भि । व॒त्सम् । न । धे॒नवः᳚ ।
द॒ध॒न्वि॒रे । गभ᳚स्त्योः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाश्राः शब्दयन्तः इन्दवः सोमाः अभ्यर्षन्ति अभिगच्छन्ति पात्रंप्रति । वाश्राः शब्दकारिण्योधेनवोन ता यथा शब्दयन्त्योवत्सं प्रत्यागच्छन्ति तद्वत् तएव गभस्त्योर्बाह्वोः दधन्विरे ध्रियते च ॥ ७ ॥